अध्यापिताश्च यैः शिष्या यैरधीतं मुनीश्वरैः
त्वं संस्तुता पूजिता च मुनीन्द्रमनुमानवैः 2.5.
जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः
इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः
तदा ज्योतिस्त्वरूपा सा तेनादृष्टाऽप्युवाच तम्
याज्ञवल्क्यकृतं वाणीस्तोत्रं यः संयतः पठेत्
महामूर्खश्च दुर्मेधा वर्षमेकं च यः पठेत्
नारायण उवाच गङ्गाशापेन कलया कलहाद्भारते सरित्
पुण्यदा पुण्यजननी पुण्यतीर्थस्वरूपिणी
तपस्विनां तपोरूपा तपस्याकाररूपिणी
ज्ञाने सरस्वतीतोये गतं यैर्मानवैर्भुवि
भारते कृतपापश्च स्नात्वा तत्रैव लीलया
चतुर्दश्यां पौर्णमास्यामक्षयायां दिनक्षये
अनुषङ्गेण यः स्नाति हेलया श्रद्धयाऽपि वा
सरस्वतीमन्त्रकं च मासमेकं तु यो जपेत्
नित्यं सरस्वतीतोये यः स्नात्वा मुण्डयेन्नरः
इत्येवं कथितं किंचिद्भारतीगुणकीर्त्तनम् 2.6.
सौतिरुवाच पुनः पप्रच्छ सन्देहच्छेदं शौनक सत्वरम्
नारद उवाच कलया कलहेनैव समभूत्पुण्यदा सरित्
श्रवणे श्रुतिसाराणां वर्द्धते कौतुकं मम
कथं शशाप सा गङ्गा पूजितां तां सरस्वतीम्
तेजस्विन्योर्द्वयोर्वादकारणं श्रुतिसुन्दरम्
नारायण उवाच यस्याः स्मरणमात्रेण सर्वपापात्प्रमुच्यते
लक्ष्मीस्सरस्वती गङ्गा तिस्रो भार्य्या हरेरपि
चकार सैकदा गङ्गा विष्णोर्मुखनिरीक्षणम्
विभुर्जहास तद्वक्त्रं निरीक्ष्य च मुदा क्षणम्
बोधयामास तां पद्मा सत्त्वरूपा च सस्मिता 2.6.
उवाच गङ्गां भर्त्तारं रक्तास्या रक्तलोचना
सरस्वत्युवाच धर्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य च
ज्ञातं सौभाग्यमधिकं गंगायां ते गदाधर