महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् 2.4.
इदं ते काण्वशाखोक्तं कथितं कवचं मुने
नारायण उवाच महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा
गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह
संप्राप्य तपसा सूर्य्यं कोणार्के दृष्टिगोचरे
सूर्य्यस्तं पाठयामास वेदवेदाङ्गमीश्वरः
तमित्युक्त्वा दीननाथो ह्यन्तर्द्धानं जगाम सः
याज्ञवल्क्य उवाच गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम्
ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते
ग्रन्थनिर्मितिशक्तिं च सच्छिष्यं सुप्रतिष्ठितम्
लुप्तां सर्वां दैववशान्नवां कुरु पुनः पुनः
ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी 2.5.
यया विना जगत्सर्वं शश्वज्जीवन्मृतं सदा
यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा
हिमचन्दनकुन्देन्दुकुमुदाम्भोज सन्निभा
विसर्गबिन्दुमात्राणां यदधिष्ठानमेव च
यया विनाऽत्र संख्याकृत्संख्यां कर्त्तुं न शक्नुते
व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता
स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्तिस्वरूपिणी
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै
तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः
स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः 2.5.
यदाऽप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा
तदा त्वां च स तुष्टाव संत्रस्तः कश्यपाज्ञया
व्यासः पुराणसूत्रं च समपृच्छत वाल्मिकिम्
तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः
पुराणसूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः तदा त्वत्तो वरं प्राप्य स कवीन्द्रो बभूव ह
तदा वै वेदभागं च पुराणानि चकार ह
क्षणं त्वामेव संचिन्त्य तस्यै ज्ञानं ददौ विभुः
दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम्