पाद्मे विष्णोर्नाभिपद्मे स्रष्टा सृष्टिं विनिर्ममे
एतत्तु कालसंख्यानमुक्तं सृष्टिनिरूपणे
एतान्सृष्ट्वा किं चकार तन्मे व्याख्यातुमर्हसि
एतान्सृष्ट्वा जगामासौ सुरम्यं रासमण्डलम्
रम्याणां कल्पवृक्षाणां मध्येऽतीव मनोहरम्
चन्दनागुरुकस्तूरीकुङ्कुमैश्च सुसंस्कृतम् 1.5.
पट्टसूत्रग्रन्थियुक्तं नवचन्दनपल्लवैः
सद्रत्नसारनिर्माणमण्डपानां त्रिकोटिभिः
शृंगारार्हभोगवस्तुसमूहपरिवेष्टितम्
तत्र गत्वा च तैः सार्धं समुवास जगत्पतिः
आविर्बभूव कन्यैका कृष्णस्य वामपार्श्वतः
रासे संभूय गोलोके सा दधाव हरेः पुरः
प्राणाधिष्ठातृदेवी सा कृष्णस्य परमात्मनः
देवी षोडशवर्षीया नवयौवनसंयुता
सुकोमलांगी ललिता सुन्दरीषु च सुन्दरी
बन्धुजीवजिता रक्तसुन्दरोष्ठा धरावरा 1.5.
शरत्पार्वणकोटीन्दुशोभामृष्टशुभानना
खगेन्द्रचञ्चुविजितचारुनासा मनोहरा
दधती चारुकर्णे च रत्नाभरणभूषिते
सिन्दूरबिन्दुसंयुक्तसुकपोला मनोहरा
सुगन्धकबरीभारं सुन्दरं दधती सती
गमनं कुर्वती सा च हंसखञ्जनगञ्जनम्
हारं हीरकनिर्माणं रत्नकेयूरकङ्कणम्
अमूल्यरत्ननिर्माणं क्वणन्मञ्जीररञ्जितम्
सा च सम्भाष्य गोविन्दं रत्नसिंहासने वरे
तस्याश्च लोमकूपेभ्यः सद्यो गोपाङ्गनागणः 1.5.
लक्षकोटीपरिमितः शश्वत्सुस्थिरयौवनः
कृष्णस्य लोमकूपेभ्यः सद्यो गोपगणो मुने
त्रिंशत्कोटिपरिमितः कमनीयो मनोहरः
कृष्णस्य लोमकूपेभ्यः सद्यश्चाविर्बभूव ह