सर्वे देवाश्च मनवो नृपा वा मानवादयः 2.4.
नारद उवाच पूजोपयुक्तं नैवेद्यं पुष्पं वा चन्दनादिकम्
वद वेदविदां श्रेष्ठ श्रोतुं कौतूहलं मम
नारायण उवाच जगन्मातुः सरस्वत्याः पूजाविधिसमन्विताम्
माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेऽपि च
स्नात्वा नित्यक्रियां कृत्वा घटं संस्थाप्य भक्तितः
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्
ध्यानेन वक्ष्यमाणेन ध्यात्वा बाह्यघटे बुधः
पूजोपयुक्तं नैवेद्यं यद्यद्वेदे निरूपितम्
नवनीतं दधि क्षीरं लाजांश्च तिललड्डुकान्
स्वस्तिकं शर्करां शुक्लधान्यस्याक्षतमक्षतम् 2.4.
घृतसैन्धवसंस्कारैर्हविष्यैर्व्यञ्जनैस्तथा
पिष्टकं स्वस्तिकस्यापि पक्वरम्भाफलस्य च
नारिकेलं तदुदकं केशरं मूलमार्द्रकम् कालदेशोद्भवं पक्वफलं शुक्लं सुसंस्कृतम्
सुगन्धि शुक्लपुष्पं च गन्धाढ्यं शुक्लचन्दनम् माल्यं च शुक्लपुष्पाणां मुक्ताहीरादिभूषणम्
यद्दृष्टं च श्रुतौ ध्यानं प्रशस्तं श्रुतिसुन्दरम्
सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम्
वह्निशुद्धांशुकाधानां सस्मितां सुमनोहराम्
सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः
एवं ध्यात्वा च मूलेन सर्वं दत्त्वा विचक्षणः
येषां स्यादिष्टदेवीयं तेषां नित्यं शुभं मुने 2.4.
सर्वोपयुक्तमूलं च वैदिकाष्टाक्षरः परः सरस्वती चतुर्थ्यन्तो वह्निजायान्त एव च
श्रीं ह्रीं सरस्वत्यै स्वाहा
पुरा नारायणश्चेमं वाल्मीकाय कृपानिधिः
भृगुर्ददौ च शुक्राय पुष्करे सूर्य्यपर्वणि
भृगवे च ददौ तुष्टो ब्रह्मा बदरिकाश्रमे विभाण्डको ददौ मेरावृष्यशृङ्गाय धीमते
शिवः कणादमुनये गौतमाय ददौ मुने
शेषः पाणिनये चैव भरद्वाजाय धीमते
चतुर्लक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम्
कवचं शृणु विप्रेन्द्र यद्दत्तं विधिना पुरा