शंकर उवाच पुत्रस्ते भविता सत्यं मदंशेन च मत्समः
दास्यामि मन्त्रमतुलं सर्वेषां च सुदुर्लभम्
स्तोत्रं पूजाविधानं च कवचं परमाद्भुतम्
वरं दातुमिष्टदेवी प्रत्यक्षा भवितेति च
जजाप परमं मन्त्रं सोऽसितः शतवत्सरम्
पुत्रस्ते भविता सत्यं महाज्ञानी सुतेति च
कालेन च सुतस्तस्य शिवांशेन बभूव ह 4.30.
सुयज्ञनृपतेः कन्यां रत्नमालावतीं मुदा
स्थाने स्थाने च रहसि शतवर्षं तया सह
कालान्तरे स विरतो बभूव मुनिपुंगवः
उत्थाय रात्रौ शयनाद्विरक्तश्च तपोधनः
निद्रां त्यक्त्वा च तत्कान्ता न दृष्ट्वा स्वामिनं सती
उत्तिष्ठन्ती निर्विशन्ती रुरोदोच्चैर्मुहुर्मुहुः
आहारं च परित्यज्य प्राणांस्तत्याज सुन्दरी
तपश्चकार स मुनिर्गन्धमादनगह्वरे
तं ददर्श ह दैवेन रम्भा शृंगारलोलुपा
सा च तं कथयामास निर्जने समुपस्थिता 4.30.
रम्भोवाच त्यक्त्वा कठोरं रहसि भज मां सुखदायिकाम्
त्वं वरेषु वरः पृथ्व्यां वरारोहा स्वयंवरा
यज्ञं कुर्वन्ति भूपाला भारते स्वर्गहेतुकम्
स्तनयोर्युग्ममूर्वोर्मे सुन्दरं मुखपंकजम्
स्त्रीरसः सुखसारश्च मुनीनामभिवाञ्छितः
देवो वा मानवो वाऽपि गन्धर्वो वाऽथ राक्षसः
रहस्युपस्थितां कान्तां न भजेद्यो जितेन्द्रियः
सत्यं तस्याश्च वधभाक्तच्छापेन प्रणश्यति
येन त्यक्तोपस्थिता तं यथा पश्यति पुंश्चली
परं प्रियं च सर्वेषां जारं जानाति पुंश्चली 4.30.
पुंश्चली हिंस्रजन्तुभ्यो नवघातिभ्य एव च
त्यज ध्यानं मुनिश्रेष्ठ भुंक्ष्वेदं तपसः फलम्
स रम्भावचनं श्रुत्वा तामुवाच भयाकुलः