इत्येवं कथितं वत्स कृष्णसङ्कीर्त्तनं शुभम्
नारद उवाच अधुना प्रकृतीनां च व्यासं वर्णय भो प्रभो
कस्याः पूजा कृता केन कथं मर्त्ये प्रका शिता
कवचं स्तोत्रकं ध्यानं प्रभावं चरितं शुभम्
नारायण उवाच सावित्री वै सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता
आसीत्पूज्या प्रसिद्धा च प्रभावः परमाद्भुतः
प्रकृत्यंशाः कला याश्च तासां च चरितं शुभम्
वाणी वसुन्धरा गङ्गा षष्ठी मङ्गलच ण्डिका
तेजसा मत्समास्ताश्च रूपेण च गुणेन च
संक्षेपमासां चरितं पुण्यदं अतिसुन्दरम्
दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् 2.4.
आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता
आविर्भूता यदा देवी वक्त्रतः कृष्णयोषितः
स च विज्ञाय तद्भावं सर्वज्ञः सर्वमातरम्
श्रीकृष्ण उवाच युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम्
कामदं कामिनीनां च तासां तं कामपूरकम्
कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि
यो यस्माद्बलवान्वाऽपि ततोऽन्यं रक्षितुं क्षमः
सर्वेशस्सर्वशास्ताऽहं राधां राधितुमक्षमः
प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः
त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति 2.4.
विवर्जिता लोभमोहकामकोपेन हिंसया
तया सार्द्धं भव प्रीत्या सुखं कालं प्रयास्यति
प्रतिविश्वेषु ते पूजां महतीं ते मुदाऽन्विताः
मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः
मद्वरेण करिष्यन्ति कल्पे कल्पे यथाविधि
काण्वशाखोक्तविधिना ध्यानेन स्तवनेन च
कृत्वा सुवर्णगुटिकां गन्धचन्दन चर्च्चिताम्
पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते
ततस्तत्पूजनं चक्रुर्ब्रह्मविष्णुमहेश्वराः