प्राणाधिके महादेवि स्थिरा भव भयं त्यज
किं तु ते कथयिष्यामि किंचिदेवास्त्यमंगलम्
श्रीदामशापजन्येन कर्मभोगेन सुन्दरि
तत्र भारावतरणं पित्रोर्बंधनमोचनम्
घातयित्वा च यवनं मुचुकुन्दस्य मोक्षणम्
उद्वाहं राजकन्यानां सहस्राणां च षोडश
मित्रोपकरणं चैव वाराणस्याश्च दाहनम्
पारिजातस्य हरणं यद्यत्कर्माणि तानि च
संभाषणं च बंधूनां यज्ञसंपादनं पितुः करिष्यामि च तत्रैव गोपिकानां च दर्शनम्
तुभ्यमाध्यात्मिकं दत्त्वा पुनः सत्यं त्वया सह 4.6.
भविष्यति त्वया सार्द्धं पुनरागमनं व्रजे
नित्यं संमीलन स्वप्ने भविष्यति त्वया सह
शतवर्षांतरे साध्यमेतदेव सुनिश्चितम्
पुनः पित्रोश्च गोपीनां शोकसंमार्जनं परम्
त्वया सहापि गोलोकं गोपैर्गोपीभिरेव च
वैकुंठगमनं राधे नित्यस्य परमात्मनः
देवानां चैव देवीनामंशा यास्यंति स्वक्षयम्
इत्येवं कथितं सर्वं भविष्यं च शुभाशुभम्
इत्येवमुक्त्वा श्रीकृष्णः कृत्वा राधां स्ववक्षसि
उवाच श्रीहरिर्देवान्देवीं च समयोचितम् 4.6.
गच्छ पार्वति कैलासं सुताभ्यां स्वामि ना सह
भविता कलया जन्म सर्वेषां च व्रजेश्वरि
प्रणम्य श्रीहरिं देवाः स्वालयं प्रययुर्मुदा
हरिणा योजितं कर्म कर्तुं व्यग्रा महीं ययुः
उवाच राधिकां कृष्णो वृषभानुगृहं व्रज
अहं यास्यामि मथुरां वसुदेवालयं प्रिये
राधा प्रणम्य श्रीकृष्णं रक्तपंकजलोचना
स्थायंस्थायं क्वचिद्यांती गत्वागत्वा पुनः पुनः
पपौ चक्षुश्चकोराभ्यां निमेषरहिता सती
ततः प्रदक्षिणीकृत्य सप्तधा परमेश्वरी 4.6.