श्यामो युवा पीतवासाः शयानो जलतल्पके
तन्नाभिकमले ब्रह्मा बभूव कमलोद्भवः
नान्तं जगाम दण्डस्य पद्मनाभस्य पद्मजः
स्वस्थानं पुनरागत्य दध्यौ कृष्णपदाम्बुजम्
शयानं जलतल्पे च ब्रह्माण्डपिण्डमावृते
श्रीकृष्णं चापि गोलोकं गोपगोपीसमन्वितम्
बभूवुर्ब्रह्मणः पुत्रा मानसाः सनकादयः
बभूव पाता विष्णुश्च वामे क्षुद्रस्य पार्श्वतः
क्षुद्रस्य नाभिपद्मे च ब्रह्मा विश्वं ससर्ज सः 2.3.
एवं सर्वं लोमकूपे विश्वं प्रत्येकमेव च
इत्येवं कथितं वत्स कृष्णसङ्कीर्त्तनं शुभम्
नारद उवाच अधुना प्रकृतीनां च व्यासं वर्णय भो प्रभो
कस्याः पूजा कृता केन कथं मर्त्ये प्रका शिता
कवचं स्तोत्रकं ध्यानं प्रभावं चरितं शुभम्
नारायण उवाच सावित्री वै सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता
आसीत्पूज्या प्रसिद्धा च प्रभावः परमाद्भुतः
प्रकृत्यंशाः कला याश्च तासां च चरितं शुभम्
वाणी वसुन्धरा गङ्गा षष्ठी मङ्गलच ण्डिका
तेजसा मत्समास्ताश्च रूपेण च गुणेन च
संक्षेपमासां चरितं पुण्यदं अतिसुन्दरम्
दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् 2.4.
आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता
आविर्भूता यदा देवी वक्त्रतः कृष्णयोषितः
स च विज्ञाय तद्भावं सर्वज्ञः सर्वमातरम्
श्रीकृष्ण उवाच युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम्
कामदं कामिनीनां च तासां तं कामपूरकम्
कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि
यो यस्माद्बलवान्वाऽपि ततोऽन्यं रक्षितुं क्षमः
सर्वेशस्सर्वशास्ताऽहं राधां राधितुमक्षमः
प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः