कैलासे शंकराज्ञा च बभूव पार्वतीं पुरा आलिंगनं देहि कांते नास्ति दोषो ममा ज्ञया
कथं शिवाज्ञा तां देवीं बभूव राधिकापते
श्वेतद्वीपात्स्वयं विष्णुर्जगाम शंकरालये
दृष्ट्वा गणेशं मुदितः समुवास सुखासने 4.6.
किरीटिनं कुंडलिनं पीतांबरधरं वरम्
चंदनागुरुकस्तूरीकुंकुमद्रवसंयुतम्
रत्न सिंहासनस्थं च पार्षदैः परिवेष्टितम्
तं दृष्ट्वा पार्वती विष्णुं प्रसन्नवदनेक्षणा
अतीव सुन्दरं रूपं दर्शंदर्शं पुनःपुनः
परमाद्भुतवेषं च सस्मिता वक्रचक्षुषा
क्षणं ददर्श पञ्चास्यं शुभ्रवर्णं त्रिलोचनम्
क्षणं ददर्श श्यामं तमेकास्यं च द्विलोचनम्
मदंशाश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः 4.6.
दृष्ट्वा तं पार्वती भक्त्या पुलकांचितविग्रहा
दुर्गांतराभिप्रायं च बुबुधे शंकरः स्वयम्
दुर्गां निर्जनमाहूय तामुवाच हरः स्वयम्
अहं ब्रह्मा च विष्णुश्च ब्रह्मैकं च सनातनम्
एका प्रकृतिः सर्वेषां माता त्वं सर्वरूपिणी
मम वक्षसि दुर्गा त्वं निबोधाध्यात्मकं सति
सुचिरं तपसा लब्धो नाथस्त्वं जगतां मया
मादृशीं किंकरी नाथ न परित्यक्तुमर्हसि
तव वाक्यं महादेव करिष्याम्येव पालनम् 4.6.
इत्येवं वचनं श्रुत्वा विरराम महेश्वरः
तत्प्रतिज्ञापालनाय पार्वती जांबवद्गृहे
ललाभ भारते जन्म निंदिते भाल्लुके गृहे
हिमालयांशो भल्लूको जांबवान्नाम किंकरः
रामस्य वरदानेन चिरंजीवी श्रिया युतः
सर्वेषां च सुराणां वै वंशा गच्छंतु भूतलम्
कमलाकलया सर्वा भवंतु नृपकन्यकाः
धर्मोऽयमंशरूपेण पांडुपुत्रो युधिष्ठिरः