अहं यान्संहरिष्यामि कस्तेषामपि रक्षिता
सर्वेषामपि संहर्ता स्रष्टा पाताऽहमेव च
भक्ता ममानुगा नित्यं मत्पादार्चनतत्पराः
सर्वे नश्यंति ब्रह्माण्डे प्रभवंति पुनःपुनः
अतो विपश्चितः सर्वे दास्यं वांछंति नो वरम्
जन्ममृत्युजराव्याधि भयं च यमयातना 4.6.
भक्ता न लिप्ताः पापेषु पुण्येषु सर्वक र्मिणः
अहं प्राणश्च भक्तानां भक्ताः प्राणा ममापि च
चक्रं सुदर्शनं नाम षोडशारं सुतीक्ष्णकम्
भक्तान्तिके तु तच्चक्रं दत्त्वा रक्षार्थमीप्सितम्
न मे स्वास्थ्यं च वैकुंठे गोलोके राधिकांतिके
प्राणेभ्यः प्रेयसी राधा स्थितोरसि दिवानिशम्
भक्तदत्तं च यद्द्रव्यं भक्त्या ऽश्नामि सुरेश्वराः
स्त्रीपुत्रस्वजनांस्त्यक्त्वा ध्यायंते मामहर्निशम्
दुष्टा यदा मे भक्तानां ब्राह्मणानां गवामपि
तथाऽचिरं ते नश्यंति यथा वह्नौ तृणानि च 4.6.
यास्यामि पृथिवीं देवा यात यूयं स्वमालयम्
इत्युक्त्वा जगतां नाथो गोपाना हूय गोपिकाः
गोपा गोप्यश्च शृणुत यात नंदव्रजं परम्
वृषभानुप्रिया साध्वी नंदगोपकलावती
पितॄणां मानसी कन्या धन्या मान्या च योषिताम्
तस्या गृहे जन्म लभ शीघ्रं नंदव्रजं व्रज
त्वं मे प्राणाधिका राधे तव प्राणाधिकोऽप्यहम्
श्रुत्वैवं राधिका तत्र रुरोद प्रेमविह्वला
जनुर्लभत गोपाश्च गोप्यश्च पृथिवीतले
एतस्मिन्नंतरे सर्वे ददृशू रथमुत्तमम् 4.6.
श्वेतचामरलक्षेण शोभितं दर्पणायुतैः
सद्रत्नकलशानां च सहस्रेण सुशोभितम्
पार्षदप्रवरैयुक्तं शात कुंभमयं शुभम्
तत्रस्थं पुरुषं श्यामं सुन्दरं कमनीयकम्