तं च मन्त्रं वरं दत्त्वा तमुवाच पुनर्विभुः
कृष्णस्य वचनं श्रुत्वा तमुवाच महाविराट्
महाविराडुवाच सन्ततं यावदायुर्मे क्षणं वा सुचिरं च वा
त्वद्भक्तियुक्तो यो लोके जीवन्मुक्तः स सन्ततम्
किं तज्जपेन तपसा यज्ञेन यजनेन च
कृष्णभक्तिविहीनस्य पुंसः स्याज्जीवनं वृथा
यावदात्मा शरीरेऽस्ति तावत्स्याच्छक्तिसंयुतः
स च त्वं च महाभाग सर्वात्मा प्रकृतेः परः
इत्युक्त्वा बालकस्तत्र विरराम च नारद 2.3.
श्रीकृष्ण उवाच असंख्यब्रह्मणां पाते पातस्ते न भविष्यति
अंशेन प्रतिविध्यण्डे त्वं च पुत्र विराड् भव
ललाटे ब्रह्मणश्चैव रुद्राश्चैकादशैव तु
कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः
मद्भक्तियुक्तः सततं भविष्यसि वरेण मे
मातरं कमनीयां च मम वक्षःस्थलस्थिताम्
गत्वा च नाकं ब्रह्माणं शङ्करं स उवाच ह
श्रीकृष्ण उवाच महाविराड् लोमकूपे क्षुद्रस्य च विधेः शृणु
गच्छ वत्स महादेव ब्रह्मभालोद्भवो भव
इत्युक्त्वा जगतां नाथो विरराम विधेः सुतः 2.3.
महाविराड् लोमकूपे ब्रह्माण्डे गोलके जले
श्यामो युवा पीतवासाः शयानो जलतल्पके
तन्नाभिकमले ब्रह्मा बभूव कमलोद्भवः
नान्तं जगाम दण्डस्य पद्मनाभस्य पद्मजः
स्वस्थानं पुनरागत्य दध्यौ कृष्णपदाम्बुजम्
शयानं जलतल्पे च ब्रह्माण्डपिण्डमावृते
श्रीकृष्णं चापि गोलोकं गोपगोपीसमन्वितम्
बभूवुर्ब्रह्मणः पुत्रा मानसाः सनकादयः
बभूव पाता विष्णुश्च वामे क्षुद्रस्य पार्श्वतः
क्षुद्रस्य नाभिपद्मे च ब्रह्मा विश्वं ससर्ज सः 2.3.
एवं सर्वं लोमकूपे विश्वं प्रत्येकमेव च