तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः
पितृमातृपरित्यक्तो जलमध्ये निराश्रयः
स्थूलात्स्थूलतमः सोऽपि नाम्ना देवो महाविराट्
तेजसां षोडशांशोऽयं कृष्णस्य परमात्मनः
प्रत्येकं रोमकूपेषु विश्वानि निखिलानि च
यथाऽस्ति संख्या रजसां विश्वानां न कदाचन
प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः
तत ऊर्ध्वे च वैकुण्ठो ब्रह्माण्डाद्बहिरेव सः
तदूर्ध्वे गोलकश्चैव पञ्चाशत्कोटियोजनात् 2.3.
सप्तद्वीपमिता पृथ्वी सप्तसागरसंयुता
ऊर्ध्वं सप्त सुवर्लोका ब्रह्मलोकसमन्विताः
ऊर्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परः
ततः परस्तपोलोकः सत्यलोकस्ततः परः
एवं सर्वं कृत्रिमं तद्बाह्याभ्यन्तर एव च
जलबुदुदवत्सर्वं विश्वसंघमनित्यकम्
लोमकूपे च विध्यण्डं प्रत्येकं तस्य निश्चितम्
प्रत्येकं प्रतिविध्यण्डे ब्रह्मविष्णुशिवादयः
दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः
अथ कालेन स विराडूर्ध्वं दृष्ट्वा पुनः पुनः 2.3.
चिन्तामवाप क्षुद्युक्तो रुरोद च पुनः पुनः
ततो ददर्श तत्रैव ब्रह्म ज्योतिः सनातनम्
सस्मितं मुरलीहस्तं भक्तानुग्रहकारकम्
वरं तस्मै ददौ तुष्टो वरेशः समयोचितम्
ब्रह्माण्डासंख्यनिलयो भव वत्स लयावधि रोगमृत्युजराशोकपीडादिपरिवर्जितः
इत्युक्त्वा तद्दक्षकर्णे महामन्त्रं षडक्षरम्
प्रणवादिचतुर्थ्यन्तं कृष्ण इत्यक्षरद्वयम्
मन्त्रं दत्त्वा तदाहारं कल्पयामास वै प्रभुः
प्रतिविश्वेषु नैवेद्यं दद्याद्वै वैष्णवो जनः
निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य च 2.3.
यद्ददाति व नैवेद्यं यस्मै देवाय यो जनः