सुदती सुन्दरी श्रेष्ठा शतचन्द्रसमप्रभा
रत्नसिंहासने रम्ये स्तुता वै सर्वकारणम्
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः
शुद्धस्फटिकसङ्काशः शतकोटिरविप्रभः
तप्तकाञ्चनवर्णाभ जटाभारधरः परः
दिगम्बरो नीलकण्ठः सर्प भूषणभूषितः
प्रजपन्पञ्चवक्त्रेण ब्रह्मज्योतिः सनातनम्
कारणं कारणानां च सर्वमङ्गलमङ्गलम्
संस्तूय मृत्योर्मृत्युं तं जातो मृत्युञ्जयाभिधः 2.2.
श्रीनारायण उवाच ततः स्वकाले सहसा द्विधारूपो बभूव सः
तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः
पितृमातृपरित्यक्तो जलमध्ये निराश्रयः
स्थूलात्स्थूलतमः सोऽपि नाम्ना देवो महाविराट्
तेजसां षोडशांशोऽयं कृष्णस्य परमात्मनः
प्रत्येकं रोमकूपेषु विश्वानि निखिलानि च
यथाऽस्ति संख्या रजसां विश्वानां न कदाचन
प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः
तत ऊर्ध्वे च वैकुण्ठो ब्रह्माण्डाद्बहिरेव सः
तदूर्ध्वे गोलकश्चैव पञ्चाशत्कोटियोजनात् 2.3.
सप्तद्वीपमिता पृथ्वी सप्तसागरसंयुता
ऊर्ध्वं सप्त सुवर्लोका ब्रह्मलोकसमन्विताः
ऊर्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परः
ततः परस्तपोलोकः सत्यलोकस्ततः परः
एवं सर्वं कृत्रिमं तद्बाह्याभ्यन्तर एव च
जलबुदुदवत्सर्वं विश्वसंघमनित्यकम्
लोमकूपे च विध्यण्डं प्रत्येकं तस्य निश्चितम्
प्रत्येकं प्रतिविध्यण्डे ब्रह्मविष्णुशिवादयः
दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः
अथ कालेन स विराडूर्ध्वं दृष्ट्वा पुनः पुनः 2.3.
चिन्तामवाप क्षुद्युक्तो रुरोद च पुनः पुनः