मद्गुणश्रुतिमात्रेण सानन्दः पुलकान्वितः
न वाञ्छन्ति सुखं मुक्तिं सालोक्यादि चतुष्टयम्
इन्द्रत्वं च मनुत्वं च देवत्वं च सुदुर्लभम् 2.6.
ब्रह्माण्डानि विनश्यन्ति देवा ब्रह्मादयस्तथा
भ्रमन्ति भारते भक्ता लब्ध्वा जन्म सुदुर्लभम्
इत्येतत्कथितं सर्वं कुरु पद्मे यथोचितम्
नारद उवाच गङ्गोपाख्यानमधुना वद वेदविदां वर
भारतं भारतीशा पादाजगाम सुरेश्वरी
कथं कुत्र युगे केन प्रार्थिता प्रेरिता पुरा
राजराजेश्वरः श्रीमन्सगरः सृर्य्यवंशजः
सत्यस्वरूपः सत्येष्टः सत्यवाक्सत्यभावनः
एककन्यश्चैकपुत्रो बभूव सुमनोहरः
अन्या चाराधयामास शङ्करं पुत्रकामुकी
गते शताब्दे पूर्णे च मांसपिण्डं सुषाव सा
शम्भुर्ब्राह्मणरूपेण तत्समीपं जगाम ह
सर्वे बभूवुः पुत्राश्च महाबलपराक्रमा 2.10.
कपिलर्षेः कोपदृष्ट्या बभूवुर्भस्मसाच्च ते
तपश्चकारासमंजो गङ्गानयनकारणात्
दिलीपस्तस्य तनयो गङ्गानयनकारणात
अंशुमाँस्तस्य पुत्रश्च गङ्गानयनकारणात्
भगीरथस्तस्य पुत्रो महाभागवतः सुधीः
तपः कृत्वा लक्षवर्षं गङ्गानयनकारणात्
द्विभुजं मुरलीहस्तं किशोरं गोपवेषकम्
स्वेच्छामयं परं ब्रह्म परिपूर्णतमं विभुम्
निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम्
वह्निशुद्धां शुकाधानं रत्नभूषणभूषितम् 2.10.
लीलया च वरं प्राप्य वाञ्छितं वंशतारकम्
तं प्रणम्य प्रतस्थौ च तत्पुरः संपुटाञ्जलिः कुर्वतीं स्तवनं दिव्यं पुलकाञ्चितविग्रहाम्
श्रीकृष्ण उवाच
सगरस्य सुतान्सर्वान्पूतान्कुरु ममाज्ञया