चतुर्लक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम्
कवचं शृणु विप्रेन्द्र यद्दत्तं विधिना पुरा
भृगुरुवाच सर्वज्ञ सर्वजनक सर्वपूजकपूजित ।। 2.4.
सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो
ब्रह्मोवाच श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम्
उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने
अतीव गोपनीयं च कल्पवृक्षसमं परम्
यद्धृत्वा पठनाद्ब्रह्मन्बुद्धिमांश्च बृहस्पतिः
पठनाद्धारणाद्वाग्ग्मी कवीन्द्रो वाल्मिकी मुनिः
कणादो गौतमः कण्वः पाणिनिः शाकटायनः
धृत्वा वेदविभागं च पुराणान्यखिलानि च
शातातपश्च संवर्त्तो वसिष्ठश्च पराशरः
ऋष्यशृङ्गो भरद्वाजश्चास्तीको देवलस्तथा 2.4.
कवचस्यास्य विप्रेन्द्र ऋषिरेष प्रजापतिः
सर्वतत्त्वपरिज्ञाने सर्वार्थेऽपि च साधने
ॐ ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः
ॐ सरस्वत्यै स्वाहेति श्रोत्रं पातु निरन्तरम्
ॐ ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वतोऽवतु
ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपंक्तीः सदाऽवतु
ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धं मे श्रीं सदाऽवतु
ॐ ह्रीं विद्यास्वरूपायै स्वाहा मे पातु नाभिकाम्
ॐ सर्ववर्णात्मिकायै पादयुग्मं सदाऽवतु
ॐ सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदाऽवतु 2.4.
ॐ ऐं ह्रीं श्रीं सरस्वत्यै बुधजनन्यै स्वाहा
ॐ ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैर्ऋत्यां मे सदाऽवतु
ॐ सदम्बिकायै स्वाहा वायव्ये मां सदाऽवतु
ॐ सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदाऽवतु
ऐं ह्रीं पुस्तकवासिन्यै स्वाहाऽधो मां सदाऽवतु
इति ते कथितं विप्र सर्वमन्त्रौघविग्रहम्
पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने