संकल्पतो यः शृणोति भक्त्या दत्त्वा च दक्षिणाम् । यद्बाल्ये यच्चकौमारे वार्धके यच्च यौवने
कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः । रत्ननिर्माणयानेन धृत्वा श्रीकृष्णरूपकम्
नित्यं गत्वा च गोलोकं कृष्णदास्यं लभेद्भूवम् । असंख्यब्रह्मणां पाते न भवेत्तस्य पातनम्
समीपे पार्षदो भूत्वा सेवां च कुरुते चिरम् । श्रुत्वा च ब्रह्मखण्डं च सुस्नातः संयतः शुचिः
पायसं पिष्टकं चैव फलं ताम्बूलमेव च । भोजयित्वा वाचकं च तस्मै दद्यात्सुवर्णकम्
चन्दनं शुक्लमाल्यं च सूक्ष्मवस्त्रं मनोहरम् । निवेद्य वासुदेवं च वाचकाय प्रदीयते
श्रुत्वा च प्रकृतेः खण्डं सुश्राव्यं च सुधोपमम् । भोजयित्वा च दध्यन्नं तस्मै दद्याच्च
सवत्सां सुरभिं रम्यां दद्याद्वै भक्तिपूर्वकम् । श्रुत्वा गणपतेः खण्डं विघ्ननाशाय संयतः
स्वर्णयज्ञोपवीतं च श्वेताश्वच्छत्रमाल्यकम् । प्रदीयते वायकाय स्वस्तिकं तिललड्डुकम्
परिपक्वफलान्येव कालदेशोद्भवानि च । श्रीकृष्णजन्मखण्डं च श्रुत्वा भक्तश्च भक्तितः
वाचकाय प्रदद्याच्च परं रत्नाङ्गुलीयकम् । सूक्ष्मवस्त्रं च माल्यं च स्वर्णकुण्डलमुत्तमम्
माल्यं च वरदोलां च सुपक्वं क्षीरमेव च । सर्वस्वं दक्षिणां दद्यात्स्तवनं कुरुते ध्रुवम्
शतकं ब्राह्मणानां च भोजयेत्परमादरात् । ब्रह्मणं वैष्णवं शास्त्रनिष्णातं पण्डितं वरम्
कुरुते वाचकं शुद्धमन्यथा निष्फलं भवेत् । श्रीकृष्ण विमुखाद्दुष्टान्नोपदिष्टाच्च ब्राह्मणात्
श्रीकृष्णभक्तियुक्तं च पुराणं यः शृणोति च । भक्तिं पुण्यं न लभते हन्ति पुण्यं पुराकृतम्
श्रीकृष्णभक्तियुक्ताच्च पुराणं यः शृणोति च । भक्तिं पुण्यं च लभते यात्यन्ते श्रोहरेः पदम्
एतत्ते कथितं सर्व यच्छ्रु तं गुरुवक्त्रतः । बिदायं देहि विप्रेन्द्र यामि नारायणाश्रमम्
दृष्ट्वा विप्रसमूहं च नमस्कर्तुं समागतः । कथितं ब्रह्मवैवर्तं भवतामाज्ञया परम्
नमोऽस्तु ब्राह्मणेभ्यश्च कृष्णाय परमात्मने । शिवाय ब्रह्मणे नित्यं गणेशाय नमो नमः
कायेन मनसा वाचा परं भक्त्या दिवानिशम् । भज सत्यं परं ब्रह्म राधेशं त्रिगुणात्परम्
नमो देव्यै सरस्वत्यै पुराणगुरवे नमः । सर्वविघ्नविनाशिन्यै दुर्गादेव्यै नमो नमः
युष्माकं पादद्मानि दृष्ट्वा पुण्यानि शौनक । अद्य सिद्धाश्रमं यामि यत्र देवो गणेश्वरः
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्धे नारदनारयणसंवादे सूतशौनकसंवादे त्रयस्त्रिंदशधिकशततमोऽध्यायः
नारद उवाच अधुना प्रकृतीनां च व्यासं वर्णय भो प्रभो
कस्याः पूजा कृता केन कथं मर्त्ये प्रका शिता
कवचं स्तोत्रकं ध्यानं प्रभावं चरितं शुभम्
नारायण उवाच सावित्री वै सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता
आसीत्पूज्या प्रसिद्धा च प्रभावः परमाद्भुतः
प्रकृत्यंशाः कला याश्च तासां च चरितं शुभम्
वाणी वसुन्धरा गङ्गा षष्ठी मङ्गलच ण्डिका