यतोऽपत्यं त्वया त्यक्तं कोपशीले सुनिष्ठुरे
या यास्त्वदंशरूपाश्च भविष्यन्ति सुरस्त्रियः
एतस्मिन्नन्तरे देवी जिह्वाग्रात्सहसा ततः
पीतवस्त्रपरीधाना वीणापुस्तकधारिणी
अथ कालान्तरे सा च द्विधारूपा बभूव ह
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव ह
उवाच वाणीं श्रीकृष्णस्त्वमस्य भव कामिनी
एवं लक्ष्मीं संप्रदौ तुष्टो नारायणाय वै
अनपत्ये च ते द्वे च यतो राधांशसम्भवे 2.2.
तेजसा वयसा रूपगुणाभ्यां च समा हरेः
अथ गोलोकनाथस्य लोमाविवरतो मुने
रूपेण सुगुणेनैव वेषाद्वा विक्रमेण च
राधाङ्गलोमकूपेभ्यो बभूवुर्गोपकन्यकाः
रत्नभूषणभूषाढ्याः शश्वत्सुस्थिरयौवनाः
एतस्मिन्नन्तरे विप्र सहसा कृष्णदेहतः
देवी नारायणीशाना सर्वशक्तिस्वरूपिणी
देवीनां बीजरूपा च मूलप्रकृतिरीश्वरी
तप्तकाञ्चनवर्णाभा सूर्य्यकोटिसमप्रभा
नानाशस्त्रास्त्रनिकरं बिभ्रती सा त्रिलोचना 2.2.
यस्याश्चांशांशकलया बभूवुः सर्वयोषितः
सर्वैश्वर्य्यप्रदात्री च कामिनां गृहमेधिनाम्
मुमुक्षूणां मोक्षदात्री सुखिनां सुखदायिनी
तपस्विषु तपस्या च श्रीरूपा सा नृपेषु च
शोभास्वरूपा चन्द्रे च पद्मेषु च सुशोभना
यया च शक्तिमानात्मा यया वै शक्तिमज्जगत्
या च संसारवृक्षस्य बीजरूपा सनातनी
क्षुत्पिपासा दया श्रद्धा निद्रा तन्द्रा क्षमा धृतिः
सा च संस्तूय सर्वेशं तत्पुरः समुपस्थिता
एतस्मिन्नन्तरे तत्र सस्त्रीकश्च चतुर्मुखः 2.2.
कमण्डलुधरः श्रीमांस्तपस्वी ज्ञानिनां वरः