इतिहासो भारतं च वान्मीकं काव्यमेव च । पञ्चकं पञ्चरात्राणां कृष्णमाहात्म्यपूर्वकम्
वसिष्ठं नारदीयं च कापिलं गौतमीयकम् । परं सनत्कुमारीयं पञ्चरात्रं च पञ्चकम्
पञ्चकं सहितानां च कृष्णभक्तिसमन्वितम् । ब्रह्मणाश्च शिवस्यापि प्रह्लादस्य तथैव च
गौतमस्य कुमारस्य संहिताः परिकीर्तिताः । इति ते कथितं सर्व क्रमेण च पृथक्पृथक्
अस्त्येवं विपुलं शास्त्रं ममापि च यथागमम् । उवाचेदं पुराणं च गोलोके रासमण्डले
श्रीकृष्णो भगवान्साक्षाद्ब्रह्माणं च स्वभक्तकम् । ब्रह्मा धर्म च धर्मिष्ठं धर्मो नारायणं मुनिम्
नारायणो नारदं च नारदो मां च भक्तकम् । अहं त्वां च मुनिश्रेष्ठ वरिष्ठं कथयामि तत्
सुदर्लभं पुराणं च ब्रह्मवैवर्तमीप्सितम् । यद्वृणोत्येव विश्वौघं जीविनां परमात्मकम्
तद्ब्रह्म साक्षिरूपं च कर्मणामेव कर्मिणाम् । तद्ब्रह्म विवृतं यत्र तद्विभूतिमनुत्तमाम्
तेनेदं ब्रह्मवैवर्तमित्येवं च बिदुर्बुधाः । पुण्यप्रदं पुराणं च मङ्गलं मङ्गलप्रदम्
सुगोप्यं च रहस्यं च यत्र रम्यं नवं नवम् । हरिभक्तिप्रदं चैव दुर्लभं हरिदास्यदम्
सुखदं ब्रह्मदं सारं शोकसंतापनाशनम् । सरितां च यथा गङ्गा सद्यो मुक्तिप्रदा शुभा
तिर्थातां पुष्करं शुद्धं यथा काशी पुरीषु च । सर्वेषु भारतं वर्षं सद्यो मुक्तिप्रदं शुभम्
यथा सुमेरुः शैलेषु पारिजातं च पुष्पतः । पत्रेषु तुलसीपत्रं व्रतेष्वेकादशीव्रतम्
वृक्षेषु कल्पवृक्षश्च श्रीकृष्णश्च सुरेषु च । ज्ञानीन्द्रेषु महादेवो योगीन्द्रेषु गणेश्वरः
सिद्धेन्द्रेष्वेव कपिलः सूर्यस्तेजस्विनां यथा । सनत्कुमारो भगवान्वैष्णवेषु यथाऽग्रणीः
भूपेषु च यथा रामो लक्ष्मणश्च धनुष्मताम् । देवीषु च यथा दुर्गा महापुण्यवती सती
प्राणाधिका यथा राधा कृष्णस्य प्रेयसीषु च । ईश्वरीषु यथा लक्ष्मीः पण्डितेषु सरस्वती
तथा सर्वपुराणेषु ब्रह्मवैवर्तमेव च । नातो दिशिष्टं सुखदं मधुरं च सुपुण्यदम्
संदेहभञ्जनं चैव पुराणं परिकीर्तितम् । इह लोके च सुखदं सुप्रदं सर्वसंपदाम्
शुभदं पुण्यदं चैव विघ्ननिघ्नकरं परम् । हरिदास्यप्रदं चैव परलोके प्रहर्षदम्
यज्ञानामपि तीर्थानां व्रतानां तपसां तथा । भुवः प्रदक्षिणस्यापि फलं नास्य समानकम्
चतुर्णामपि वेदानां पाठादपि वरं फलम् । श्रृणोतीदं पुराणं च संयतश्चेह पुत्रक
गुणवन्तं च विद्वांसं वैष्णवं पुत्रमालभेत् । श्रृणोति दुर्भगा चेत्तु सौभाग्यं स्वामिनो लभेत्
मृतवत्सा काकवन्ध्या महावन्ध्या च पापिनी । पुराणश्रवणाल्लेभे पुत्रं च चिरचीविनम्
अपुत्रो लभते पुत्रमभार्यो लभते प्रियाम् । अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः
अरण्ये ब्रान्तरे भीतो दावाग्नो मुच्यते ध्रुवम् । अघं कुष्ठं च दारिद्र्यं रोगं शोकं च दारुणम्
पुण्यवान्श्रवणादेव नैव जानात्यपुण्यवान् । श्लोकार्ध श्लोकपादं वा यः शृणोति सुसंयतः
गोलक्षदानपुण्यं च लभते नात्र संशयः । युतुःखडं पुराणं च शुद्धकाले जितेन्द्रियः