संस्कारं तस्य विधिवद्राजत्वं तत्पितुस्तथा । विलापनं च नन्दस्य स्तवनं परमाद्भुतम्
प्रोक्तस्तयोश्च संवादो निर्जने तातपुत्रयोः । परमाध्यात्मिकं ज्ञानं नन्दाय च ददौ विभुः
मुनीनां गमनं चैव धन्योपाख्यानमेव च । कथितं च कुमारेण प्रोक्तमेव सुदुर्लभम्
उद्धवागमनं प्रोक्तं राधास्थानं च निर्जनम् । ज्ञानं तयोश्च संवादे प्रोक्तमेव शुभावहम्
यज्ञोपवीतं कृष्णस्य विद्यादानं गृरोर्गृहे । मृतपुत्रप्रदानं च प्रोक्तं तद्गुरवे पुरा
जरासंधस्य दमनं निधनं यवनस्य च । द्वारकायाश्च निर्माणं विश्वकारोद्यमं तथा
द्वारकावेशनं प्रोक्तमुग्रसेनविलापनम् । रुक्मिणीहरणं चैव नृपाणां दमनं तथा
सर्वासं कामिनीनां च प्रोक्तमुद्वाहनं तथा । मायावतीमोक्षणं च निधनं शम्बरस्य च
धर्मपुत्रराजसूये शिशुपालस्य मोक्षणम् । दन्तवक्त्रस्य च मुनेः शाल्वस्य निधनं तथा
मणेश्च हरणं चैव पारिजातस्य स्वर्गतः । कुरुपाण्डवयुद्धे च भुवश्च भारमोक्षणम्
ऊषाया हरणं प्रोक्तं बाणस्य भुजकृन्तनम् । बलेश्च स्तवनं प्रोक्तमनिरुद्धस्य विक्रमः
राधायशोदासंवादः प्रोक्तः परमदुर्लभः । मोक्षणं च शृगालस्य प्रोक्तं च परमाद्भुतम्
तीर्थयात्राप्रसङ्गेन गणेशपूजनं तथा । दर्शनं राधिकासार्धं कुष्णस्य परमात्मनः
राधाया दर्शनं देव्या राधातेजःप्रकाशनम् । राधाय रमणं तीर्थे भ्रमणं रहसि स्मृतम्
निधनं यदुवंशानां ब्रह्मशापेन शौनक । मोक्षणं पाण्डवानां च स्वपदे गमनं हरेः
विवाहो नारदस्यैवोत्पत्तिर्वह्निसुवर्णयोः । प्रोक्तं सर्व महाभाग पुनरेव समासतः
चतुःखण्डैः पुराणं च ब्रह्मवैवर्तमेव च । अतः परं मुनिश्रेष्ठ किं भूयः श्रातुमिच्छसि
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo अनुक्रमणिकं नाम द्वात्रिंशदधिकशततमोऽध्यायः
अथ त्रयस्त्रिंशदधिकशततमोऽध्यायः शौनक उवाच अध्य मे सफलं जन्म चीवितं च सुजीवितम् । यत्फलं ब्रह्मवैवर्ते निर्विघ्नं मोक्षकारणम्
अभयं देहि हे वत्स हे तात मह्यमेव च । तदा निवेदनं किंचिदस्तीति च करोम्यहम्
सूत उवाच त्यज भीतिं महाभाग प्रश्नं कुरु यदिच्छसि । सर्वं ते कथयिष्यामि यद्यद्गोप्यं मनोहरम्
शौनक उवाच अधुना श्रोतुमिच्छामि पुराणानां च लक्षणम् । संख्यानमपि तेषां च फलमस्यैव पुत्रक
सूत उवाच विस्तराणि पुराणानि चेतिहासश्च शौनक । संहितां पञ्चरात्राणि कथयामि यथागतम्
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं विप्र पुराणं पञ्चलक्षणम्
एतदुपपुराणानां लक्षणं च विदुर्बुधाः । महतां च पुराणानां लक्षणं कथयामि ते
सृष्टिश्चापि विसृष्टिश्च स्थितिस्तेषां च पालनम् । कर्मणां वासना वार्तामनूनां चाक्रमेण च
वर्णनं प्रलयानां च मौक्षस्य च निरूपणम् । उत्कीर्तनं हरेरेव वेदानां च पृथक्पृथक्
दशाधिकं लक्षणं च महतां परिकीर्तितम् । संख्यानं च पुराणानां निबोध कथयामि ते
परं ब्रह्मपुराणं च सहस्राणां दशैव तु । पञ्चोनषष्टिसाहस्रं पाद्ममेव प्रकीर्तितम्
त्रयोविंशतिसाहस्रं वैष्णवं च विदुर्बुधाः । चतुर्विंशतिसाहस्रं शैवं चैव निरूपितम्