श्रीकृष्णजन्मखण्डं च श्रूयतां सावधानतः । जन्ममृत्युजराव्याधिहरं मोक्षकरं परम्
हरिदास्यप्रदं शुद्धं सुश्राव्यं च सुधोपमम् । अत्यबूर्वमुणाख्यानं रम्यं रम्यं नवं नवम्
न श्रुतं चन्मना यद्यत्स्वदु स्वादु पदे पदे । प्रदीपं सर्वसत्त्वानां भवाब्धितारणं परम्
कर्मेपभोगरोगाणां मर्दनं च रसायनम् । श्रीकृष्णचरणाम्भोजप्राप्तिसोपानकारणम्
श्रीदामराधाकलहवर्णनं दारुणं द्विज । तयोः शापप्रकथनं ततस्तेषां विसर्जनम्
ब्रह्मण प्रार्थितस्यैव हरेर्जनम् महीतले । प्रोक्तं च जन्मखण्डे च परमाद्भुतमेव च
आविर्भावो हरेरेव वसुदेवस्य मन्दिरे । कंसासुरभयेनैव गोकुले गमनं हरेः
वृषभानसुता राधा श्रीदाम्नः शापहेतुना । बालक्रीडावर्णनं च गोकुले परमात्मनः
दैत्यादिनिधनं चैव कीर्तितं हरिणा तथा । गर्गस्याऽऽगमनं प्रोक्तं शुभान्नप्राशनं हरेः
निधनं पूतनायाश्च सद्यः शकटभञ्जनम् । श्रीकृष्णबन्धमोक्षं च यमलार्जुनभञ्जनम्
त्रैलोक्यदर्शनं वक्त्रे गोवत्साहरणं तथा । कृत्वा गोवत्सनिर्माणं ब्रह्मणः स्तवनं हरेः
सहसा गोकुलं त्यवत्वा पुण्यं वृन्दावनं वनम् । भयाज्जगाम नन्दश्च सार्धं च नन्दनेन च
वृन्दावनस्य निर्माणं प्रोक्तं च परमाद्भुतम् । सार्धं च बालकैः सार्ध तत्र संक्रीडनं हरे
सदन्नं ब्राह्मणीनां च भोजनं कथितं हरेः । वरदानं च तासां वै प्राक्तनेन निरूपणम्
क्रतूनां वर्णनं चैव वस्त्रापहरणं तथा । वरदानं च गोपीनां कृष्णेनैव कऋतं द्विज
कात्यायनीव्रतं प्रोक्तं श्रीदुर्गापूजनं तथा । पार्वत्या च वरो दत्तो गोपीभ्यो यमुनातटे
तालानां भक्षणं प्रोक्तं शक्रयामाविमर्दनम् । राधया सह कृष्णस्य विरहो मेलनं तथा
गोपीक्रीडा च संप्रोक्ता कृष्णक्रोडे च राधिका । छाया रायणगेहे च संप्रोक्ता मायया हरेः
शृङ्गारं षोडसविधं कृत्वा तु रासमण्डले । अन्तर्धानं हरेरेव राधया सह कानने
मलयागमनं चैव तया सार्धं द्विजोत्तम । राधामाधवयोश्चैव संवादस्तत्र निर्जने
कैवल्यमपि गोपीनां प्रोक्तं नानाविधं मुने । पुनरागमनं चैव पुण्यं वृन्दावनं वनम्
श्रीकृष्णदर्शनं चैव गोपीनां हर्षवर्थनम् । नानाप्रकारक्रीडा च प्रोक्ता तस्य जले स्थले
गोपीनामपि सौभाग्यं राधायाश्च विशेषतः । प्रोक्तं व्यासेन सौन्दर्य रम्यं रम्यं नवं नवम्
नभःस्थितानां देवानां दर्शनं प्रोक्तमेव च । मनसः स्खलनं चैव देवीनां रासमण्डले
अंशेन लेभिरे जन्म देव्यश्चोक्तमिदं द्विज । अक्रूरागमनं चैव गोपीनां च विलापनम्
प्रोक्तं सर्वं क्रमेगैव चाक्रूरभर्त्सनं तथा । मथुरागमनं विष्णोः शोकं गोकुलवासिनाम्
राधिकाविरहज्वालाजालं प्रोक्तं यथोचितम् । स्वमूल्तिदर्शनं चैवमक्रूरं यमुनातटे
मथुरावेशनं प्रोक्तं निधनं रजकस्य च । कुब्जया सह संभोगस्तस्या मोक्षणमेव च
प्रसादनं कुविन्दस्य मालाकारस्य मोक्षणम् । धनुधो भञ्जनं शंभोर्हस्तिनो निधनं तथा
सभाप्रवेशनं प्रोक्तं नानारूपप्रदर्शनम् । कंसस्य निधनं प्रोक्तं तद्बन्धूनां विलापनम्