एतासां चरितं चैवमन्यासां च पृथक्पृथक् । उपाख्यानं महालक्ष्म्याः सरस्वत्यास्तथैव च
अपूर्वं राधिकाख्यानं सावित्र्याश्च तथैव च । संवादो यमसावित्र्योः सत्यवज्जीवदानकम्
कृण्डानां वर्णनं प्रोक्तं तेषां च लक्षणं तथा । जीवितर्मविपाकश्च भोगनिर्णय एव च
अपूर्व राधिकाख्यानं पुराणेषु सुगोप्यकम् । सुयज्ञस्च नृपेन्द्रस्य चरितं परमाद्भुतम्
प्रोक्तं तुलस्युपाख्यानं पुराणेषु सुगोप्यकम् । महायुद्धं च संवादे महेशशङ्खचूडयोः
तुलसीकृष्णसंवादस्तयोः संभोग एव च । निधनं शङ्खचूडस्य श्रीदाम्नः शापमोक्षणम्
पदप्राप्तिः सुराणां च विपदां खण्डनं तथा । जीविनां मोक्षबीजं च गङ्गोपाख्यानमीप्सितम्
तथैव मनसाख्यानं परं हर्षविवर्धनम् । स्वाहास्वधाख्यानमेवमन्यासां च निरूपणम्
यद्यतप्रासङ्गिकाख्यानं वक्तुः प्रश्नानुरोधतः । प्रोक्तं तत्प्रकृतेः खण्डं खण्डं गणपतेः श्रृणु
अतीव मधुरं रम्यं स्वादु स्वादु पदे पदे । सुगोप्यं तत्पुराणेषु रम्यं रम्यं नवं नवम्
सुदुर्लभमुपाख्यानं श्रोतृप्रीतिकरं परम् । प्रोक्ता क्रीडा च परमा पार्वतीपरमेशयोः
स्कन्दोत्पत्तिः प्रथमतः क्रीडाभङ्गस्तयोस्तथा । पार्वतीतोषणं चैवमभिमानविमोक्षणम्
पुण्यकं च व्रतं विष्णोर्देव्याश्चरितमुत्तमम् । वरदानं हरेरेव सुव्रतां पार्वतीं प्रति
हरेश्च दर्शनं चैव ब्राह्मणातिथिरूपिणः । आविर्भावो गणेशस्य कृपया शिवमन्दिरे
दर्शनं पुत्रवक्त्रस्य पार्वतीपरमेशयोः । परमानन्दरूपं च शिवगेहे महोत्सवम्
देवाद्या ददृशुः सर्वे बालं नित्यमजं विभुम् । सत्यस्वरूपं परमं परब्रह्मस्वरूपिणम्
सर्वविघ्नहरं शान्तं दातारं सर्वसंपदाम् । तपसां जपयज्ञानां व्रतानां फलदं विभुम्
अतीव कमनीयं च रमणीयं च योषिताम् । प्राणाधिकं प्रियतम् पार्वतीपरमेशयोः
परमात्मस्वरूपं च भगवन्तं सनातनम् । सर्वेशं सर्वबीजं च साक्षान्नारायणात्मकम्
यद्दर्शनाच्च स्तवनात्प्रणामात्पूजनात्तथा । ध्यानासाध्यं दुराराध्यं जन्मकोट्यघनाशनम्
कार्तिकोद्धरणं प्रोक्तं तस्याभिषेक एव च । गणेशपूजनं चैव सर्वविघ्नविनाशनम्
जमदग्नेश्च युद्धं च कार्तवीर्यार्जुनेन च । सुरभीहरणं चैव निधनं च मुनेस्तथा
पतिव्रतारेशुकायाश्चितारोहणमेव च । प्रतिज्ञातं भृगोश्चैव दारुणं च सुदारुणम्
निःक्षत्रीकरणं चैवमेकविंशतिकं द्विज । संवादो ज्ञानलाभश्च गणेशपर्शुरामयोः
तयोर्युद्धं दारुमं च हेरम्बदन्तभञ्जनम् । दुर्गायाश्च विलापश्चाभिशापो भार्गवं प्रति
स्मरणे पर्शुरामस्याप्याविर्भावो हरेरपि । पार्वतीं बोधयामास स्वयं नारायणः प्रभुः
वर्णनं शिवलोकस्य परमाश्चर्यमीप्सितम् । प्रदत्तं पर्शुरामाय महास्त्रं शंकरेण च
मन्त्रं च कवचं चैव कृष्णस्य परमात्मनः । वरदानं चाभयं च प्रदानं सर्वसंपदाम्
त्रिःसप्तकृत्वो भूपानां निधनं च चकार सः । बभूव भृगुणा विप्र भुवश्च भारमीक्षणम्
प्रश्नानुरोधक्रमतः पूर्वापाख्यानमेव च । प्रोक्तं गणपतेः खण्डं समासेन द्विजोत्तम