ब्रह्मखण्डं च कथितं परं ब्रह्मनिरूपणम् । तदनिर्वचनीयं च येषामपि यथागमम्
साकारं च निराकारं सगुणं निर्गुणं पृथक् । येषामपि यथा शक्तिस्तथैव ध्यानमेव च
गोलोकादेर्वर्णनं च क्रमेण च पृथक्पृथक् । तत्रोपयुक्तोपाख्यानं यद्यत्प्रासङ्गिकं द्विज
जातीनां नीर्णयश्चैव संकराणां तथैव च । यद्यद्विशिष्टोपाख्यानं तत्तत्प्रशनानुरोधतः
राधामाधवयोः क्रीडा महाविष्णोः समुद्भवः । निरूपणं च विश्वेषां समासेन द्विजोत्तम
ब्रह्मनारदयोश्चैव संवादः परमार्थतः । विपेको नारदस्यैव मुनीन्द्रस्य तथैव च
आज्ञया ब्रह्मणश्चैव नरनारायणाश्रमम् । गमनं नारदस्यैव तेन सार्थं च दर्शनम्
तयोः संभाषणं चैव नारदाद्य(य) निवेदनम् । तत्र देव ब्रह्मखण्डं क्रमेणोक्तं द्विजोत्तम
श्रूयतां प्रकृतेः खण्डं सुधाखण्डसमं मुने । प्रकृतेर्लक्षणं प्रोक्तं प्रकृतीनां च वर्णनम्
उपाश्यानं च तासां च वर्णनं बूजनादिकम् । लक्ष्मीः सरस्वती दुर्गा सावित्री राधिका तथा
एतासां चरितं चैवमन्यासां च पृथक्पृथक् । उपाख्यानं महालक्ष्म्याः सरस्वत्यास्तथैव च
अपूर्वं राधिकाख्यानं सावित्र्याश्च तथैव च । संवादो यमसावित्र्योः सत्यवज्जीवदानकम्
कृण्डानां वर्णनं प्रोक्तं तेषां च लक्षणं तथा । जीवितर्मविपाकश्च भोगनिर्णय एव च
अपूर्व राधिकाख्यानं पुराणेषु सुगोप्यकम् । सुयज्ञस्च नृपेन्द्रस्य चरितं परमाद्भुतम्
प्रोक्तं तुलस्युपाख्यानं पुराणेषु सुगोप्यकम् । महायुद्धं च संवादे महेशशङ्खचूडयोः
तुलसीकृष्णसंवादस्तयोः संभोग एव च । निधनं शङ्खचूडस्य श्रीदाम्नः शापमोक्षणम्
पदप्राप्तिः सुराणां च विपदां खण्डनं तथा । जीविनां मोक्षबीजं च गङ्गोपाख्यानमीप्सितम्
तथैव मनसाख्यानं परं हर्षविवर्धनम् । स्वाहास्वधाख्यानमेवमन्यासां च निरूपणम्
यद्यतप्रासङ्गिकाख्यानं वक्तुः प्रश्नानुरोधतः । प्रोक्तं तत्प्रकृतेः खण्डं खण्डं गणपतेः श्रृणु
अतीव मधुरं रम्यं स्वादु स्वादु पदे पदे । सुगोप्यं तत्पुराणेषु रम्यं रम्यं नवं नवम्
सुदुर्लभमुपाख्यानं श्रोतृप्रीतिकरं परम् । प्रोक्ता क्रीडा च परमा पार्वतीपरमेशयोः
स्कन्दोत्पत्तिः प्रथमतः क्रीडाभङ्गस्तयोस्तथा । पार्वतीतोषणं चैवमभिमानविमोक्षणम्
पुण्यकं च व्रतं विष्णोर्देव्याश्चरितमुत्तमम् । वरदानं हरेरेव सुव्रतां पार्वतीं प्रति
हरेश्च दर्शनं चैव ब्राह्मणातिथिरूपिणः । आविर्भावो गणेशस्य कृपया शिवमन्दिरे
दर्शनं पुत्रवक्त्रस्य पार्वतीपरमेशयोः । परमानन्दरूपं च शिवगेहे महोत्सवम्
देवाद्या ददृशुः सर्वे बालं नित्यमजं विभुम् । सत्यस्वरूपं परमं परब्रह्मस्वरूपिणम्
सर्वविघ्नहरं शान्तं दातारं सर्वसंपदाम् । तपसां जपयज्ञानां व्रतानां फलदं विभुम्
अतीव कमनीयं च रमणीयं च योषिताम् । प्राणाधिकं प्रियतम् पार्वतीपरमेशयोः
परमात्मस्वरूपं च भगवन्तं सनातनम् । सर्वेशं सर्वबीजं च साक्षान्नारायणात्मकम्
यद्दर्शनाच्च स्तवनात्प्रणामात्पूजनात्तथा । ध्यानासाध्यं दुराराध्यं जन्मकोट्यघनाशनम्