वरुण उवाच बालो जले समुद्भूतो मम पुत्रोऽयमीप्सितः । अहं गृहीत्वा यास्यामि ब्रह्मा मां ताडयेत्कथम्
ब्रह्मोवाच वालकः शरणापन्नो मयि विष्णो महेश्वर । कथं दास्यामि भीतं च रुदन्तं शरणागतम्
शरणागतदीनार्तं यो न रक्षेदपण्डितः । पच्यते निरये तावद्यावच्चन्द्रदिवाकरौ
उभयोर्वचनं श्रुत्वा प्रहस्य मधुसूधनः । उवाच तत्र सर्वज्ञः सर्वेशश्च यथोचितम्
श्रीभगवानुवाच दृष्ट्वा तु कामिनीश्रोणिं वीर्यं धातुः पपात तत् । लज्जया प्रेरयामास क्षीरोदे निर्मले जले
ततौ बभूव बालश्च धर्मतो विधिपुत्रकः । क्षेत्रज्ञश्च सुतः शास्त्रे वरुणस्यापि गौणतः
महादेव उवाच यो विद्यायोनिसंबन्धो वेदेषु च निरूपितः । शिष्ये पुत्रे च समता चेति वेदविदो विदुः
मन्त्रं ददातु वरुणो विद्यांच बारकाय च । पुत्रो विधातुर्वङ्निश्च शिष्यश्य वरुणस्य च
विष्णुर्ददातु बालाय दाहिकां सक्तिमुज्ज्वलाम् । सर्वदग्धो हुताशश्च निर्वाणो वरुणेन च
विष्णुश्च दाहिकां शक्तिं ददौ तस्मै शिवाज्ञया । मन्त्रं विद्यां च वरुणो रत्नमालां मनोहराम्
क्रोडे कृत्वा च तं बालं चुचुम्ब मायया सुरः । ब्रह्मणे च ददौ साक्षाद्विष्णुशंकरयोरपि
प्रणम्य विष्णुं ब्रह्मा च ययौ शंभुः स्वमन्दिरम् । अग्न्युत्पत्तिश्च कथिता स्वर्णोत्पत्तिं निशामय
विलोक्य रम्भां सुश्रोणिं सकामो वह्निरेव च । पपात वीर्यं चच्छाद लज्जया वाससा तथा
विलोक्य रम्भां सुश्रोणिं सकामो वह्निरेव च । पपात वीर्य चच्छाद लज्जया वाससा तथा
उत्तस्थौ स्वर्णपुञ्जश्च वस्त्रं क्षिप्त्वा ज्वलत्प्रभः । क्षणेन वर्धयामास स सुमेरुर्बभूव ह
हिरण्यरेतसं वह्निं प्रवदन्ति मनीषिणः । इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo वह्निसुवर्णोत्पत्तिर्नामैकत्रिंशदधिकशततमोऽध्यायः
अथ द्वात्रिंशदधिकशततमोऽध्यायः शौनक उवाच श्रुतं सर्वं नावशेषं धर्मेश व्रह्मणं च माम् । कथयस्व महाभाग पुराणं पुनरेव हि
एवंविधं पुराणं च जन्मनैव न हि श्रुतम् । नधृष्टं न श्रुतं तात ता (त्वा) दृशं वाजकं तथा
सूत उवाच श्रूयतां भो महाभाग सावधानं च संयतम् । अध्यायश्रवणेनैव पुराणफलमालभेत्
ब्रह्मखण्डं च कथितं परं ब्रह्मनिरूपणम् । तदनिर्वचनीयं च येषामपि यथागमम्
साकारं च निराकारं सगुणं निर्गुणं पृथक् । येषामपि यथा शक्तिस्तथैव ध्यानमेव च
गोलोकादेर्वर्णनं च क्रमेण च पृथक्पृथक् । तत्रोपयुक्तोपाख्यानं यद्यत्प्रासङ्गिकं द्विज
जातीनां नीर्णयश्चैव संकराणां तथैव च । यद्यद्विशिष्टोपाख्यानं तत्तत्प्रशनानुरोधतः
राधामाधवयोः क्रीडा महाविष्णोः समुद्भवः । निरूपणं च विश्वेषां समासेन द्विजोत्तम
ब्रह्मनारदयोश्चैव संवादः परमार्थतः । विपेको नारदस्यैव मुनीन्द्रस्य तथैव च
आज्ञया ब्रह्मणश्चैव नरनारायणाश्रमम् । गमनं नारदस्यैव तेन सार्थं च दर्शनम्
तयोः संभाषणं चैव नारदाद्य(य) निवेदनम् । तत्र देव ब्रह्मखण्डं क्रमेणोक्तं द्विजोत्तम
श्रूयतां प्रकृतेः खण्डं सुधाखण्डसमं मुने । प्रकृतेर्लक्षणं प्रोक्तं प्रकृतीनां च वर्णनम्
उपाश्यानं च तासां च वर्णनं बूजनादिकम् । लक्ष्मीः सरस्वती दुर्गा सावित्री राधिका तथा