एवंभूतं च सुदिनं कदाऽस्माकं फविष्यति । तज्जन्म सफलं धन्यं यत्र वैष्णवसंगमः
गर्भवासोच्छेदनं च कर्ममूलनिकृन्तनम् । हरिदास्यप्रदं शुद्धं भक्तानां भक्तिवर्धनम्
असाधुसङ्गदुर्बुद्धिपापोन्मूलनकारणम् । गणेशजन्मोपख्यानं पुराणेषु सुदुर्लभम्
तुलसीराधिकाख्यानं किमपूर्व श्रुतं परम् । अन्यद्यद्यद्गोपनीयं व्यक्तमव्यक्तमीप्सितम्
सर्वं श्रुतं महाभाग परिबूर्णं मनोहरम् । अधुना श्रोतुमिच्छामि वह्नेरुत्पत्तिमीप्सिताम् स्वर्णस्य च महाभाग तन्मे व्याख्यातुमर्हसि
सूत उवाच सामग्रीकरणं सृष्टेर्जलमेव हुताशनः । तथैव प्रकृतिर्नित्या महानेव तथैव च
यथा दिशो महाकाशो ययैव सृष्टिगोलकम् । प्रकृतेर्महतश्च स्याद्य थाऽहंकार एव च
यथैव शब्दस्तन्मात्रं तथैव च हुताशनः । तथाऽपि तत्समुत्पत्तिं कथयामि निशामय
एकदा सृष्टिकाले च ब्रह्मानन्तमहेश्वराः । श्वेतद्वीपं ययुः सर्वे द्रष्टुं विष्णुं जगत्पतिम्
परस्परं च संभाषां कृत्वा सिंहासनेषु च । ऊचुः सर्वे सभामध्ये सुरम्ये पुरतो विभोः
विष्णुगात्रोद्भवास्तत्र कामिन्यः कमलाकलाः । तत्र नृत्यन्ति गायन्ति विष्णुगाथाश्च
तासां च कठिनां श्रोणिं कठिनं स्तनमण्डलम् । सस्मितं मुखपद्मं च दृष्ट्वा ब्रह्मा सुकामुकः
मनोनिवारणं कर्तुं न शशाक पितामहः । वीर्यं पपात चच्छाद लज्जया वाससा विभुः
तद्वीर्यं वस्त्रसहितं प्रतप्तं कामतापतः । क्षीरोदे प्रेरयामास संगीते विरते द्विज
जलादुत्थाय पुरुषः प्रज्वलन्ब्रह्मतेजसा । उवास ब्रह्मणः क्रोडे लज्जितस्य च संसदि
एतस्मिन्नन्तरे रुष्टो जलादुत्थाय सत्वरः । प्रणम्य वरुणो देवान्बालं नेतुं समुद्यतः
बालो दधार ब्रह्माणं बाहुम्यां च भयाद्रुदन् । किं चिन्नोवाच जगतां विधाता लज्जया द्विज
बालकस्य करे धृत्वा चकारऽऽकर्षणं रुषा । वरुणश्च सभामध्ये तं चिक्षेप प्रजापतिः
पपात दूरतो देवो वरुणो दुर्बलस्ततः । मूर्छां संप्राप मृतवत्कोपदृष्ट्या विधेरहो
चेतनं कारयामासामृतदृष्ट्या च शंकरः । संप्राप्य चेतनं तत्र तमुवाच जलेश्वरः
वरुण उवाच बालो जले समुद्भूतो मम पुत्रोऽयमीप्सितः । अहं गृहीत्वा यास्यामि ब्रह्मा मां ताडयेत्कथम्
ब्रह्मोवाच वालकः शरणापन्नो मयि विष्णो महेश्वर । कथं दास्यामि भीतं च रुदन्तं शरणागतम्
शरणागतदीनार्तं यो न रक्षेदपण्डितः । पच्यते निरये तावद्यावच्चन्द्रदिवाकरौ
उभयोर्वचनं श्रुत्वा प्रहस्य मधुसूधनः । उवाच तत्र सर्वज्ञः सर्वेशश्च यथोचितम्
श्रीभगवानुवाच दृष्ट्वा तु कामिनीश्रोणिं वीर्यं धातुः पपात तत् । लज्जया प्रेरयामास क्षीरोदे निर्मले जले
ततौ बभूव बालश्च धर्मतो विधिपुत्रकः । क्षेत्रज्ञश्च सुतः शास्त्रे वरुणस्यापि गौणतः
महादेव उवाच यो विद्यायोनिसंबन्धो वेदेषु च निरूपितः । शिष्ये पुत्रे च समता चेति वेदविदो विदुः
मन्त्रं ददातु वरुणो विद्यांच बारकाय च । पुत्रो विधातुर्वङ्निश्च शिष्यश्य वरुणस्य च
विष्णुर्ददातु बालाय दाहिकां सक्तिमुज्ज्वलाम् । सर्वदग्धो हुताशश्च निर्वाणो वरुणेन च
विष्णुश्च दाहिकां शक्तिं ददौ तस्मै शिवाज्ञया । मन्त्रं विद्यां च वरुणो रत्नमालां मनोहराम्