नारदस्तु मनु प्राप्य सर्वसिद्धिप्रदं वरम् । श्रीकृष्णे निश्चलां भक्तिं पूर्वकर्मनिकृन्तनीम्
त्यक्त्वा मायामयीं भार्यां भारतं तपसे ययौ । कृतमालानदीतीरे ददर्श शंकरं परम्
दृष्ट्वा च सहसा मूर्ध्ना प्रणनाम शिवं मुनिः । तमुवाच जगन्नाथो भक्तं च भक्तवत्सलः
महादेव उवाच अहो नारद दृष्ट्वा त्वां प्रसन्नोऽहं स्वतेजसा । भक्तानां दर्शनं यत्र सुदिनं तच्छरीरिणाम्
अयं हि परमो लाभो देहिनां बक्तसंगमः । स स्नातः सर्वतीर्थेषु यो ददर्श च वैष्णवाम्
अपि प्राप्तो महामन्त्रः सर्वतन्त्रसुदुर्लभः । मया दत्तो गणेशाय स्कन्दाय स्वात्मजाय च
मह्यं दत्तश्च कृष्णेन गोलोके रासमण्डले । ब्रह्मणे चापि धर्माय धर्मो नारायणाय च
ब्रह्मा सनत्कुमाराय तुम्यं दत्तश्च तेन वै । मन्त्रग्रहणमात्रेण जनो नारायणो भवेत्
विचारणं च नास्त्यत्र कालाकालं शुभाशुभम् । पञ्चलक्षजपेनैव पुरश्चरणमस्य च
ध्यानं च सामवेदोक्तं तेन ध्यायेच्च वैष्णवः । ध्यानं च पापदहनं कर्ममूलनिकृन्तनम्
कृष्णं नवघनश्यामं किशोरं पीतवाससम् । शतकोटीन्दुसौन्दर्यं दधानमतुलं परम्
भूषितं भूषणौघैस्तैरमूल्यरत्ननिर्मितैः । चन्दनोक्षितसर्वाङ्गं कौस्तुभेन विराजितम्
मयूरपिच्छचूडं च मालतीमाल्यमण्डितम् । ईषद्धास्यप्रसन्नास्यं नित्योपास्यं शिवादिभिः
ध्यानासाध्यं दुराराध्यं निर्गुणं प्रकृतेः परम् । सर्वेषां परमात्मानं भक्तानुग्रहविग्रहम्
वेदानिर्वचनीयं त वरं सर्वेश्वरं भजे । ध्यानेनानेन तं ध्यात्वा भगवन्तं सनातनम्
भज तं परमानन्दं सत्यं नित्यं परात्परम् । इत्युक्त्वा स्वपदं शंभूर्जगाम् परमेश्वरः
तं प्रणम्य जगन्नाथं नारदस्तपसे ययौ । नारदः श्रीहरिं स्मृत्वा योगात्त्यक्त्वा कलेवरम् निलीनः पादपद्मे च पाद (पद्मा) पद्मार्चिते हरेः
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo नारदविवाहादिप्रकरणं नाम त्रिंशदधिकशततमोऽध्यायः
अधै कत्रिंशदधिकशततमोऽध्यायः शौनक उवाच अत्यपूर्वमुपाख्यानं श्रुतं परममाद्भुतम् । सुगोप्यं च सुगोप्यं रम्यं रम्यं नवं नवम्
किमनिर्वचनीयं च कमनीयं मनोहरम् । सुदुर्लभा कथा प्रोक्ता पुराणेषु पुरातनी
एवंभूतं च सुदिनं कदाऽस्माकं फविष्यति । तज्जन्म सफलं धन्यं यत्र वैष्णवसंगमः
गर्भवासोच्छेदनं च कर्ममूलनिकृन्तनम् । हरिदास्यप्रदं शुद्धं भक्तानां भक्तिवर्धनम्
असाधुसङ्गदुर्बुद्धिपापोन्मूलनकारणम् । गणेशजन्मोपख्यानं पुराणेषु सुदुर्लभम्
तुलसीराधिकाख्यानं किमपूर्व श्रुतं परम् । अन्यद्यद्यद्गोपनीयं व्यक्तमव्यक्तमीप्सितम्
सर्वं श्रुतं महाभाग परिबूर्णं मनोहरम् । अधुना श्रोतुमिच्छामि वह्नेरुत्पत्तिमीप्सिताम् स्वर्णस्य च महाभाग तन्मे व्याख्यातुमर्हसि
सूत उवाच सामग्रीकरणं सृष्टेर्जलमेव हुताशनः । तथैव प्रकृतिर्नित्या महानेव तथैव च
यथा दिशो महाकाशो ययैव सृष्टिगोलकम् । प्रकृतेर्महतश्च स्याद्य थाऽहंकार एव च
यथैव शब्दस्तन्मात्रं तथैव च हुताशनः । तथाऽपि तत्समुत्पत्तिं कथयामि निशामय
एकदा सृष्टिकाले च ब्रह्मानन्तमहेश्वराः । श्वेतद्वीपं ययुः सर्वे द्रष्टुं विष्णुं जगत्पतिम्
परस्परं च संभाषां कृत्वा सिंहासनेषु च । ऊचुः सर्वे सभामध्ये सुरम्ये पुरतो विभोः