श्रीयुक्तश्रीफलाकारस्तनयुग्ममनोरमाम्
अतीव सुन्दरीं शान्तां सस्मितां वक्रलोचनाम्
शश्वच्चक्षुश्चकोराभ्यां पिबन्तीं सन्ततं मुदा
कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना
सुवक्रकबरीभारं मालतीमाल्यभूषितम्
कोटिचन्द्रप्रभाजुष्टपुष्टशोभासमन्विताम्
अतिमात्रं तया सार्द्धं रासेशो रासमण्डले
नानाप्रकारशृंगारं शृङ्गारो मूर्त्तिमानिव
ततः स च परिश्रान्तस्तस्या योनौ जगत्पिता 2.2.
गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत
महासुरतखिन्नाया निश्वासश्च बभूव ह
स च निःश्वासवायुश्च सर्वाधारो बभूव ह
बभूव मूर्त्तिमद्वायोर्वामाङ्गात्प्राणवल्लभा
प्राणोऽपानः समानश्चैवोदानो व्यान एव च
घर्मतोयाधिदेवश्च बभूव वरुणो महान्
अथ सा कृष्णशक्तिश्च कृष्णाद्गर्भं दधार ह
कृष्णप्राणाधिदेवी सा कृष्णप्राणाधिकप्रिया
शतमन्वन्तरातीते काले परमसुन्दरी
दृष्ट्वा चाण्डं हि सा देवी हृदयेन विदूयता 2.2.
दृष्ट्वा कृष्णश्च तत्त्यागं हाहाकारं चकार द
यतोऽपत्यं त्वया त्यक्तं कोपशीले सुनिष्ठुरे
या यास्त्वदंशरूपाश्च भविष्यन्ति सुरस्त्रियः
एतस्मिन्नन्तरे देवी जिह्वाग्रात्सहसा ततः
पीतवस्त्रपरीधाना वीणापुस्तकधारिणी
अथ कालान्तरे सा च द्विधारूपा बभूव ह
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव ह
उवाच वाणीं श्रीकृष्णस्त्वमस्य भव कामिनी
एवं लक्ष्मीं संप्रदौ तुष्टो नारायणाय वै
अनपत्ये च ते द्वे च यतो राधांशसम्भवे 2.2.
तेजसा वयसा रूपगुणाभ्यां च समा हरेः