ब्रह्मा प्रहृष्टवदनः श्रुत्वा वार्तां शुभावहाम् । तपस्विनं च पुत्रं च संप्राप्य जगतां पतिः
रत्ननिर्माणयानेन सार्धं देवैः शुभे क्षणे । पुत्रं कृत्वा च पुरतो ययौ सृञ्जयमन्दिरम्
तच्छ्रुत्वा सृञ्जयो राजा रत्नभूषणभूषिताम् । गृहीत्वा कन्यकां रम्यां नारदाय ददौ मुदा
सर्वस्वं दक्षिणां दत्त्वा मणिमुक्तादिकं तथा । पुटाञ्जलियुतो भूत्वा परिहारे चकार सः
कन्यां समर्प्य ब्रह्माणं राजा च योगिनां वरः । रुरोद भृशमुच्चैश्च वत्से वत्स इतीरितम्
क्व यासि त्यक्त्वा मद्गेहं शून्यं क मललोचने । अहं यामि वनं घोरं त्वां त्यक्त्वा जीवितो मृतः
प्रणम्य पितरं कन्या रुदन्तं मातरं तथा । रुदतीं तां रुदन्ती साऽप्यारुरोह रथं विधेः
गृहीत्वा च सभार्यं च पुत्रं धाता मुदाऽन्वितः । प्रययौ ब्रह्मलोकं च देवन्द्रैर्मुनिभिः सह
ब्राह्मणान्बोजयामास साङ्गे मङ्गलकर्मणि । देवानपि च सिद्धांश्च वादयामास दुंदुभिम्
नारदस्तु मुनिश्रेष्ठो बाधितः पूर्वकर्मणा । यस्य यत्प्राक्तनं विप्र दुर्लङ्ध्य केन वार्यते
सुरम्ये पुष्पतल्पे च सुगन्धिचन्दनार्चिते । स रेमे रामया सार्ध बुबुधे न दिवानिशम्
एवं कृत्वा विवाहं च विरतो मुनिसत्तमः । उवास ब्रह्मलोकेषु वटमूले मनोहरे
तत्राऽऽजगाम नग्नश्च प्रज्वलन्ब्रह्मतेजसा । सनत्कुमारो भगवान्साक्षाच्च बालको यथा
सृष्टेः पूर्वश्च वयसा यथैव पञ्चहायनः । अयूडोऽनुपनीतश्च वेदसंध्याविहीनकः
कृष्णेति मन्त्रं जपति यस्य नारायणो गुरुः । अनन्तकालकल्पं च भ्रातृभिश्च त्रिभिः सह
वैष्णवानामग्रणीशो ज्ञानिनां च गुरोर्गुरुः । आराद्दृष्ट्वा नारादस्तं भ्रातरं च सतां वरम्
सहसा शिरसा भूमौ दण्डवत्प्रणनाम तम् । उवाच नारदं बालः प्रहस्य परमार्थकम्
सनत्कुमार उवाच अये भ्रातः किं करोषि कुशलं युवतीपतेः । स्त्रीपुंसोर्वर्धते प्रेम नित्यं तन्नित्यनूतनम्
अर्गलं ज्ञानमार्गस्य भक्तिद्वारकपाटकम् । मोक्षमार्गव्यवहितं चिरं बन्धनकारणम्
गर्भवासस्य बीजं च परं नरककारणम् । पीयूषबुद्ध्या गरलं भुङ्क्ते पापी नराधमः
परं नारायणं त्यक्त्वा यस्याऽऽस्ते विषये मनः । स वञ्चितो मायया चामृतं त्यक्त्वा विषं भजेत्
सर्वेषां कर्मभोगेऽस्ति कर्मिणामीश्वरं विना । वयं विधातुः पुत्राश्च सा बुद्धिरिति देहिनाम्
यदि ते नास्ति भोगश्च कथं गन्धर्वजन्म च ।कथं दासीसुतस्त्वं च मुक्तश्च भक्तसङ्गतः
निर्गच्छ तपसे भ्रातस्त्यज मयामयीं प्रियाम् । सुपुण्ये भारते वर्षे तपसा भज माधवम्
स्थिते नारायणे स्वेशे परे स्वपददातरि । विषयी विषयान्धश्च वञ्चितो मायया ध्रुवम्
गृहाण मम मन्त्रं च कृष्ण इत्यक्षरद्वयम् । सर्वेषामेव सन्त्राणां सारात्सारं परात्परम्
सर्वेषु च पुराणेषु वेदेषु च चतुर्षु च । धर्मशास्त्रैषु तन्त्रैषु नास्त्येवास्मात्परो मनुः
नारायणेन दत्तो मे पुष्करे सूर्यपर्वणि । असंख्यकल्प जप्त्वाऽहं भ्रमामि सर्वपूजितः
इत्युक्त्वा स्नापयित्वा तं ददौ दस्मै परं मनुम् । दिवानिशं स जपति पूतया मणिमालया
तस्मै शुभाशिषं दत्त्वा मन्त्रं च वैष्णवाग्रणीः । गोलोकं प्रययौ द्रष्टुं भगवन्तं सनातनम्