तवाऽऽज्ञया पञ्चधाऽहं पञ्चप्रकृतिरूपिणी । कलाकलांशयाऽहं च देवपत्नयो गृहे गृहे
शीघ्रं गच्छ महाभाग तत्राऽहं विरहातुरा । गोवीभिः सहिता रासं भ्रमन्ती परितः सदा
पार्वतीवचनं श्रुत्वा प्रहस्य रसिकेश्वरः । रत्नयानं समारुह्य ययौ गोलोकमुत्तमम्
पार्वती बोधयामास स्वयं देवगणं तथा । मायावंशीरवाच्छन्नं विष्णुमाया सनातनी
कृत्वा ते हरिशब्दं च स्वगृहं विस्मयं ययुः । शिवेन सार्धं दुर्गा सा प्रहृष्टा स्वपुरं ययौ
अथ कृष्णं समायान्तं राधा गोपीगणैः सह । अनुव्रजं ययौ हृष्टा सर्वज्ञा प्राणवल्लभम्
दृष्ट्वा समीपमायान्तमवरुह्य रथात्सती । प्रणनाम जगन्नाथं सिरसा सखिभिः सह
गोपा गोप्यश्च मुदिताः प्रफुल्लवदनेक्षणाः । दुंदुभिं वादयामासुरीश्वरागमनोत्सुकाः
विरजां च समुत्तीर्य दृष्ट्वा राधां जगत्पतिः । अवरुह्य रथात्तूर्णं गृहीत्वा राधिकाकरम्
शतशृङ्गं च बभ्राम सुरम्यं रासमण्डलम् । दृष्ट्वाऽक्षयवटं पुण्यं पुण्यं वृन्दावनं ययौ
तुलसीकाननं दृष्ट्वा प्रययौ मालतीवनम् । वामे कृत्वा कुन्दवनं माधवीकाननं तथा
चकार दक्षिणे कृष्णश्चम्पकारण्यमीप्सिनम् । चकार पश्चात्तूर्णं च चारुचन्दनकाननम्
ददर्श पुरतो रम्यं राधिकाभवनं परम् । उवास राधया सार्धं रत्नसिंहासने वरे
सकर्पूरं च ताम्बूलं बुभुजे वासितं जलम् । सुष्वाप पुष्पतल्पे च सुगन्धिचन्दनार्चिते
स रेमे रामया सार्धं निमग्नो रससागरे । इत्येवं कथितं सर्वं धर्मवक्त्राच्च यच्छ्रुतम्
गोलोकारोहणं रम्यं किं भूयः श्रोतुमिच्छसि
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo गोलोकारोहणं नामैकोनत्रिंशदधिकशततमोऽध्यायः
अथ त्रिंशदधिकशततमोऽध्यायः नारद उवाच सर्वं श्रुतं महाभाग नारशेषमभीप्सितम् । किमपूर्व पुराणं च ब्रह्मवैवर्तमिष्टदम्
अधुना किं करिष्यामि तन्मां ब्रूहि जगद्गुरो । आज्ञां कुरु तपस्यां च कर्तु यामि हिमालयम्
नारायण उवाच उवबर्हणगन्धर्दः पञ्चशत्कामिनीपतिः । जन्मान्तरे भवानासीदधुना ब्रह्मपुत्रकः
तास्वेका च सती रम्या तपसा शंकरं परम् । आराध्य च वरं लेभे वाञ्छितं नारदं पतिम्
सा च सृञ्जयकन्या च स्वर्णष्ठीवीसहोदरा । तां विवाहं कुरुष्वेति शंकराज्ञा कथं वृथा
सुन्दरी सुन्दरीष्वेवं कोमलां कमलाकलाम् । पतिव्रतां महाभगां रम्यां सुप्रियवादिनीम्
कामुकीं कमनीयां च शश्वत्सुस्थिरयौवनाम् । विधात्रा लिखितं कर्म प्राक्तनं केन वार्यते
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं शुभाशुभम्
सूत उवाच नारायणवचः श्रुत्वा हृदयेन विदूयता । प्रणम्य प्रययौ शीघ्रं नारदः सृञ्जयालयम्
शौनक उवाच अहो सूत महाभाग श्रुतं किं परमाद्भुतम् । किमपूर्वं रहस्यं च सरसं च पुरातनम्
अधुना श्रोतुमिच्छामि विवाहं नारदस्य च । अतीन्द्रियस्य च मुनेर्ब्रह्मपुत्रस्य सांप्रतम्
सूत उवाच नारदो मू(गु)ढरुपश्च दृष्टावा सृञ्जयकन्यकाम् । तपस्विनीं महाभागां विष्णुव्रतपरायणाम्
ययौ ब्रह्मसभां रम्यां सर्वदेवैः समावृताम् । प्रणम्य पितरं शान्तः सर्वं तत्त्वमुवाच तम्