शतकोटीन्दुसौन्दर्यं शतकोटिस्मरप्रभाम् । दधानः परमानन्दः परिबूर्णतमः प्रभुः
परं धाम परं ब्रह्मस्वरूपो निर्गुणः स्वयम् । परमात्मा च सर्वेषां भक्तानुग्रहविग्रहः
नित्यदेहश्च भगवानीश्वरः प्रकृतेः परः । योगिनो यं वदन्त्येवं ज्योतीरूपं सनातनम्
ज्योतिरम्यन्तरे नित्यरूपं भक्ता विदन्ति यम् । वेदा वदन्ति सत्यं यं नित्यमाद्यं विचक्षणाः
यं वदन्ति सुराः सर्वे परं स्वेच्छामयं प्रभूम् । सिद्धेन्द्रा मुनयः सर्वे सर्वरूपं वदन्ति यम्
यमनिर्वचनीयं च योगीन्द्रः शंकरो वदेत् । स्वयं विधाता प्रवदेत्कारणानां च कारणम्
शेषो वदेदनन्तं यं नवधारूपमीश्वरम् । तर्काणामेव षण्णां च षड्विधं रूपमीप्सितम्
वैष्णवानामेकरूपं वेदानामेकमेव च । पुराणानामेकरूपं तस्मान्नवविधं स्मृतम्
न्यायोऽनिर्वचनीयं च यं मतं शंकरो वदेत् । नित्यं वैशेषिकाश्चाऽऽद्यं तं वदन्ति विचक्षणाः
सांख्य वदन्ति तं देवं ज्योतीरूपं सनातनम् । मीमांसा सर्वरूपं च वेदान्तः सर्वकारणम्
पातञ्जलोऽप्यनन्तं च वेदाः सत्यस्वरूपकम् । स्वेच्छामयं पुराणं च भक्ताश्च नित्यविग्रहम्
सोऽयं गोलोकनाथश्च राधेशो नन्दनन्दनः । गोकुले गोपवेषश्च पुण्ये वृन्दावने वने
चतुर्भुजश्च वैकुण्ठे महालक्ष्मीपतिः स्वयम् । नारायणश्च भगवान्यन्नाम मुक्तिकारणम्
सकृन्नारायणेत्युक्त्वा पुमान्कल्पशतत्रयम् । गङ्गादिसर्वतीर्थेषु स्नातो भवति नारद
सुनन्दनन्दकुमुदैः पार्षदैः परिवारितः । शङ्खचक्रगदापद्मधरः श्रीवत्सलाञ्छनः
कौस्तुभेन मणीन्द्रेण भूषितो वनमालया । देवैः स्तुतश्च यानेन वैकुण्ठं स्वपदं ययौ
गते वैकुण्ठनाथे च राधेशश्च स्वयं प्रभुः । चकार वंशीशब्दं च त्रैलोक्यमोहनं परम्
मूर्च्छांप्रापुर्देवगणा मुनयश्चापि नारद । अचेतना बभूवुश्च मायया पार्वतीं विना
उवाच पार्वती देवी भगवन्तं सनातनम् । विष्णुमाया भगवती सर्वरूपा सनातनी
परब्रह्मस्वरूपा या परमात्मस्वरूपिणी । सगुणा निर्गुणा सा च परा स्वेच्छामयी सती
पार्वत्युवाच एकाऽहं राधिकारूपा गोलोके रासमण्डले । रासशून्यं च गोलोकं परिपूर्ण कुरु प्रभो
गच्छ त्वं रथमारुह्य मुक्तामाणिक्यभूषितम् । परिबूर्णतमाऽहं च तव वङः स्थलस्थिता
तवाऽऽज्ञया महालक्ष्मीरहं वैकुण्ठगामिनी । सरस्वती च तत्रैव वामे पार्श्वे हरेरपि
तवाहं मनसा जाता सिन्धुकन्या तवाऽऽज्ञया । सावित्री वेदमाताऽहं कलया विधिसंनिधौ
तैजःसु सर्वदेवानां पुरा सत्ये तवाऽऽज्ञया । अधिष्ठानं कृत तत्र धृतं देव्या शरीरकम्
शुम्भादयश्च दैत्याश्च निहताश्चावलीलया । दुर्ग निहत्य तुर्गाऽहं त्रिपुरा त्रिपुरे वधे
निहत्य रक्तबीजं च रक्तबीजविनाशिनी । तवाऽऽज्ञया दक्षकन्या सती सत्यस्वरूपिणी
योगेन त्यक्त्वा देहं च शैलजाऽहं तवाऽऽज्ञया । त्वया दत्तवा (त्ताः शंकराय गोलोके रासमण्डले
विष्णुभक्तिरहं तेन विष्णुमाया च वैष्णवी । नारायणस्य मायाऽहं तेन नारायणी स्मृता
कृष्णप्राणाधिकाऽहं च प्राणाधिष्ठातृदेवता । महाविष्णोश्च वासोश्च जननी राधिका स्वयम्