मद्भक्तानां शरीरेषु सन्ति पूतेषु संततम् । मद्भक्तपादरजसा सद्यः पूता वसुंधरा
सद्यः पूतानि तीर्थानि सद्याः पूतं जगत्तथा । मन्मन्त्रोपासका विप्रा ये मदुच्छिष्टभोजिनः
मामेव नित्यं ध्यायन्ते ते मत्प्राणाधिकाः प्रियाः । तदुपस्पर्शमात्रेण पूतो वायुश्च पावकः
कलेर्दशसहस्राणि मद्भक्ताः सन्ति भूतले । एकवर्णा भविष्यन्ति मद्भक्तेषु गतेषु च
मद्भक्तशून्या पृथिवी कलिग्रस्ता भविष्यति । एतस्मिन्नन्तरे तत्र कृष्णदेहाद्विनिर्गतः
चतुर्भुजश्च पुरुषः शतचन्द्रसमप्रभः । शङ्खचक्रगदापद्मधरः श्रीवत्सलाञ्छनः
सुन्दरं रथमारुह्य श्रीरोदं स जगाम ह । सिन्धुकन्या च प्रययौ स्वयं मूर्तिमती सती
श्रीकृष्णमनसा जाता मर्त्यलक्ष्मीर्मनोहरा । श्वेतद्वीपं गते विष्णौ जगत्पालनकर्तरि
शुद्धसत्त्वस्वरूपे च द्विधारूपो बभूव सः । दक्षिणांशश्च द्विभुजो गोपबारकरूपकः
नपीनजलदश्यामः शोभितः पीतवाससा । श्रीवंशवदनः श्रीमान्सस्मितः पद्मलोचनः
शतकोटीन्दुसौन्दर्यं शतकोटिस्मरप्रभाम् । दधानः परमानन्दः परिबूर्णतमः प्रभुः
परं धाम परं ब्रह्मस्वरूपो निर्गुणः स्वयम् । परमात्मा च सर्वेषां भक्तानुग्रहविग्रहः
नित्यदेहश्च भगवानीश्वरः प्रकृतेः परः । योगिनो यं वदन्त्येवं ज्योतीरूपं सनातनम्
ज्योतिरम्यन्तरे नित्यरूपं भक्ता विदन्ति यम् । वेदा वदन्ति सत्यं यं नित्यमाद्यं विचक्षणाः
यं वदन्ति सुराः सर्वे परं स्वेच्छामयं प्रभूम् । सिद्धेन्द्रा मुनयः सर्वे सर्वरूपं वदन्ति यम्
यमनिर्वचनीयं च योगीन्द्रः शंकरो वदेत् । स्वयं विधाता प्रवदेत्कारणानां च कारणम्
शेषो वदेदनन्तं यं नवधारूपमीश्वरम् । तर्काणामेव षण्णां च षड्विधं रूपमीप्सितम्
वैष्णवानामेकरूपं वेदानामेकमेव च । पुराणानामेकरूपं तस्मान्नवविधं स्मृतम्
न्यायोऽनिर्वचनीयं च यं मतं शंकरो वदेत् । नित्यं वैशेषिकाश्चाऽऽद्यं तं वदन्ति विचक्षणाः
सांख्य वदन्ति तं देवं ज्योतीरूपं सनातनम् । मीमांसा सर्वरूपं च वेदान्तः सर्वकारणम्
पातञ्जलोऽप्यनन्तं च वेदाः सत्यस्वरूपकम् । स्वेच्छामयं पुराणं च भक्ताश्च नित्यविग्रहम्
सोऽयं गोलोकनाथश्च राधेशो नन्दनन्दनः । गोकुले गोपवेषश्च पुण्ये वृन्दावने वने
चतुर्भुजश्च वैकुण्ठे महालक्ष्मीपतिः स्वयम् । नारायणश्च भगवान्यन्नाम मुक्तिकारणम्
सकृन्नारायणेत्युक्त्वा पुमान्कल्पशतत्रयम् । गङ्गादिसर्वतीर्थेषु स्नातो भवति नारद
सुनन्दनन्दकुमुदैः पार्षदैः परिवारितः । शङ्खचक्रगदापद्मधरः श्रीवत्सलाञ्छनः
कौस्तुभेन मणीन्द्रेण भूषितो वनमालया । देवैः स्तुतश्च यानेन वैकुण्ठं स्वपदं ययौ
गते वैकुण्ठनाथे च राधेशश्च स्वयं प्रभुः । चकार वंशीशब्दं च त्रैलोक्यमोहनं परम्
मूर्च्छांप्रापुर्देवगणा मुनयश्चापि नारद । अचेतना बभूवुश्च मायया पार्वतीं विना
उवाच पार्वती देवी भगवन्तं सनातनम् । विष्णुमाया भगवती सर्वरूपा सनातनी
परब्रह्मस्वरूपा या परमात्मस्वरूपिणी । सगुणा निर्गुणा सा च परा स्वेच्छामयी सती