वह्निशुद्धांशुकाधानं शोभितं वनमालया । अतीव सुन्दरं शान्तं लक्ष्मीकान्तं मनोहरम्
व्याधास्त्रसंयुतं पादपद्मं पद्मादिवन्दितम् । दृष्ट्वा ब्रह्मादिदेवांस्तानभयं सस्मितं ददौ
पृथिवीं तां समाश्वास्य रुदतीं प्रेमविह्वलाम् । व्याधं प्रस्थापयामास परं स्वपदमुत्तमम्
बलस्य तेजः शेषे च विवेश परमाद्भुतम् । प्रद्युम्नस्य च कामे वै वाऽनिरुद्धस्य ब्रह्मणि
अयोनिसंभवा देवी महालक्ष्मीश्च रुक्मिणी । वैकुण्ठं प्रययौ साक्षात्स्वशरीरेण नारद
सत्यभामा पृथिव्यां च विवेश कमलालया । स्वयं जाम्बवती देवी पार्वत्यां विश्वमातरि
या या देव्यश्च यासां चाप्यंशरुपाश्च भूतले । तस्यां तस्यां प्रविविशुस्ता एव च पृथक्पृथक्
साम्बस्य तेजः स्कन्दे च विवेश परमाद्भुतम् । कश्यपे वसुदेवश्चाप्यदिव्यां देवकी तथा
रुक्मिणीमन्दिरं त्यकत्वा समस्तां द्वारकां पुरीम् । स जग्राह समुद्रश्च प्रफुल्लवदनेक्षणः
लपणोदः समागत्य तुष्टाव पुरुषोत्तमम् । रुरोद तद्वियोगेन साश्रुनेत्रश्च विह्वलः
गङ्गा सरस्वती पद्मावती च यमुना तथा । गोदावरी स्वर्णरेखा कावेरी नर्मदा मुने
शरावती बाहृदा च कृतमाला च पुण्यदा । समाययुश्च ताः सर्वाः प्रणेमुः परमेश्वरम्
उवाच जाह्नवी देवी रुदती परमेश्वरम् । साश्रुनेत्राऽतिदीना सा विरहज्वरकातरा
भागीरथयुवाच हे नाथ रमणश्रेष्ठ यासि गोलोकमुत्तमम् । अस्माकं का गतिश्चात्र भविष्यति कलौ युगे
श्रीभगवानुवाच कलेः पञ्चसहस्राणि वर्षाणि तिष्ठ भूतले । पापानि पापिनो यानि तुभ्यं दास्यन्ति स्नानत
मन्मन्त्रोपासकस्पर्शाद्भस्मीभूतानि तत्क्षणात् । भविष्यन्ति दर्शनाच्च स्नानादेव हि जाह्नवि
हरेर्नामानि यत्रैव पुराणानि भवन्ति हि । तत्र गत्वा सावधानमाभिः सार्धं च श्रोष्यसि
पुराणश्रवणाच्चैव हरेर्नामानुकीर्तनात् । भस्मीभूतानि पापानि ब्रह्महत्यादिकानि च
भस्मीभूतानि तान्येव वैष्णवालिङ्गनेन च । तृणानि शुष्ककाष्ठानि दहन्ति पावका यथा
तथाऽपि वैष्णवा लोके पापानि पापिनामपि । पृथिव्यां यानि तीर्थानि पुण्यान्यपि च जाह्नवि
मद्भक्तानां शरीरेषु सन्ति पूतेषु संततम् । मद्भक्तपादरजसा सद्यः पूता वसुंधरा
सद्यः पूतानि तीर्थानि सद्याः पूतं जगत्तथा । मन्मन्त्रोपासका विप्रा ये मदुच्छिष्टभोजिनः
मामेव नित्यं ध्यायन्ते ते मत्प्राणाधिकाः प्रियाः । तदुपस्पर्शमात्रेण पूतो वायुश्च पावकः
कलेर्दशसहस्राणि मद्भक्ताः सन्ति भूतले । एकवर्णा भविष्यन्ति मद्भक्तेषु गतेषु च
मद्भक्तशून्या पृथिवी कलिग्रस्ता भविष्यति । एतस्मिन्नन्तरे तत्र कृष्णदेहाद्विनिर्गतः
चतुर्भुजश्च पुरुषः शतचन्द्रसमप्रभः । शङ्खचक्रगदापद्मधरः श्रीवत्सलाञ्छनः
सुन्दरं रथमारुह्य श्रीरोदं स जगाम ह । सिन्धुकन्या च प्रययौ स्वयं मूर्तिमती सती
श्रीकृष्णमनसा जाता मर्त्यलक्ष्मीर्मनोहरा । श्वेतद्वीपं गते विष्णौ जगत्पालनकर्तरि
शुद्धसत्त्वस्वरूपे च द्विधारूपो बभूव सः । दक्षिणांशश्च द्विभुजो गोपबारकरूपकः
नपीनजलदश्यामः शोभितः पीतवाससा । श्रीवंशवदनः श्रीमान्सस्मितः पद्मलोचनः