श्री भगवानुवाच हे गोपगण हे बन्धो सुखं तिष्ठ स्थिरो भव । रमणं प्रियया सार्धं सुरम्यं रासमण्डलम्
तावत्प्रभृति कृष्णस्य पुण्ये वृन्दावने वने । अधिष्ठानं च सततं यावच्चन्द्रदिवाकरौ
तथा जगाम भाण्डीरं विधाता जगतामपि । स्वयं शेषश्च धर्मश्च भवान्या च भवःस्वयम्
सूर्यश्चापि महेन्द्रश्च चन्द्रश्चापि हुनाशनः । कुबेरो वरुणश्चैव पवनश्च यमस्तथा
ईशानश्चापि देवाश्च वसवोऽष्टौ तथैव च । सर्वे ग्रहाश्च रुद्राश्च मुनयो मनवस्तथा
त्वरिताश्चाऽऽययुः सर्वे यत्राऽऽस्ते भगवान्प्रभुः । प्रणम्य दण्डवद्भूभौ तमुवाच विधिः स्वयम्
ब्रह्मवाच परिबूर्णतम् ब्रह्मस्वरूप नित्यविग्रह । ज्योतिःस्वरूप परम नमोऽस्तु प्रकृतेः पर
सुनिर्लिप्त निराकार साकार ध्यानहेतुना । स्वेच्छामय परं धाम परमात्मन्नमोऽस्तु ते
सर्वकार्यस्वरूपेश कारणानां च कारण । ब्रह्मेशशेषदेवेश सर्वेश ते नo
सरस्वतीश पद्मेश पार्वतीश परात्पर । हे सावित्रीश राधेश रासेश्वर नo
सर्वेषामादिभूतर्स्त्वं सर्वः सर्वेश्वरस्तथा । सर्वपाता च संहर्ता सृष्टिरूप नo
त्वत्पादपद्मरजसा धन्या पूता वसुंधरा । शून्यरूपा त्वयि गते हे नाथ परमं पदम्
यत्पञ्चविंशत्यधिकं वर्षाणां शतकं गतम् । त्यक्त्वेमां स्वपदं यासि रुदतीं विरहातुराम्
महादेव उवाच ब्रह्मणा प्रार्थितस्त्वं च समागत्य वसुंधराम् । भूभारहरणं कृत्वा प्रयासि स्वपदं विभो
त्रैलोक्ये पृथिवी धन्या सद्यः पूता पदाङ्किता । वयं च मुनयो धन्याः साक्षाद्दृष्ट्वा पदाम्बुजम्
ध्यानासाध्यो दुराराध्यो मुनीनामूर्ध्वरेतसाम् । अस्माकमपि यश्चेशः सोऽधुना चाक्षुषो भुवि
वासुः सर्वनिवासश्च विश्वनि यस्य लोमसु । देवस्तस्य महाविष्णुर्वासुदेवो महीतले
सुचिरं तपसा लब्धं सिद्धेन्द्राणां सुदुर्लभम् । यत्पादपद्ममतुलं चाक्षुषं सर्वजीविनाम्
अनन्त उवाच त्वमनन्तो हि भगवन्नाहमेव कलांशकः । विश्वैकस्थे क्षुद्रकूर्मे मशकोऽहं गजे यथा
असंख्यशेषाः कूर्माश्च ब्रह्मविषणुशिवात्मकाः । असंख्यानि च विश्वानि तेषामीशः स्वयं भवान्
अस्माकमीदृशं नाथ सुदिनं क्व भविष्यति । स्वप्नादृष्टश्चयश्चेशः स दृष्टः सर्वजीविनाम्
नाथ प्रयासि गोलोकं पूतां कृत्वा वसुंधराम् । तामनाथां रुदन्तीं च निमग्नां शोकसागरे
देवा ऊचुः वेदाःस्तोतुं न शक्ता यं ब्रह्मेशानादयस्तथा । तमेव स्तवनं किं वा वयं कुर्मो नमोऽस्तु ते
इत्येवमुक्त्वा देवास्ते प्रययुर्द्वारकां पुरीम् । तत्रस्थं भगवन्तं च द्रष्टुं शीघ्रं मुदाऽन्विताः
अथ तेषां च गोपाला ययुर्गोलोकमुत्तमम् । पृथिवी कम्पिता भीता चलन्तः सप्तसागराः
हतश्रियं द्वारकां च त्यक्त्वा च ब्रह्मशापतः । मूर्तिं कदम्बमूलस्थां विवेश राधिकेश्वरः
ते सर्वे चैरकायुद्धे निपेतुर्यादवास्तथा । चितामारुह्य देव्यश्च प्रययुः स्वामिभिः सह
अर्जुनः स्वपुरं गत्वा समुवाच युधिष्ठिरम् । स राजा भ्रातृभिः सार्धं ययौ स्वर्गं च भार्यया
दृष्ट्वा कदम्बमूलस्थं तिष्ठन्तं परमेश्वरम् । देवा ब्रह्मादयस्ते च प्रणेमुर्भक्तिपूर्वकम्
तुष्टुवुः परमात्मानं देवं नारायणं प्रभुम् । श्यामं किशोरवयसं भूषितं रत्नभूषणैः