मम चोत्कीर्तनं नास्ति एतदन्ते कलौ व्रज । एकवर्णा भविष्यन्तिकिराता बलिनःशठाः
पित्रोः सेवा गुरोः सेवा सेवा च देवविप्रयोः । विवर्जिता नराः सर्वे चातिथीनां तथैव च
सस्यहीना भवेत्पृथ्वी साऽनावृष्ट्या निरन्तरम् । फलहीनोऽपि वृक्षश्च जलहीना सरित्तथा
वेदहीनो ब्राह्मणश्च बलहीनश्च भूपतिः। जातिहीनाजनाःसर्वे म्लेच्छोभूपोभविष्यति
भृत्यवत्ताडयेत्तातं पुत्रः शिष्यस्तथा गुरुम् । कान्तं च ताडयेत्कान्ता लुब्धकुक्कुटवद्गृही
नश्यन्ति सकला लोकाः कलौ शेषे च पापिनः। सूर्याणामातपात्केचिज्जलौघेनापि केचन
हे गोपेन्द्र प्रतिकलौ न नश्यति वसुंधरा । पुनःसृष्टौ भवेत्सत्यं सत्यबीजं निरन्तरम्
एतस्मिन्नन्तरे विप्र रथमेव मनोहरम् । चतुर्योजनविस्तीर्णमूर्ध्वे च पञ्चयोजनम्
शुद्धस्फटिकसंकाशं रत्नेन्द्रसारनिर्मितम्। अम्लानपारिजातानां मालाजालविराजितम्
मणीनां कौस्तुभानां च भूषणेन विभूषितम् । अमूल्यरत्नकलशं हीरहारविलम्बितम्
मनोहरैः परिष्वक्तं सहस्रकोटिमन्दिरैः । सहस्रद्वयचक्रं च सहस्रद्वयघोटकम्
सूक्ष्मवस्त्राच्छादितं च गोपीकोटीभिरावृतम् । गोलोकादागतं तूर्णं ददृशुः सहसा व्रजे
कृष्णाज्ञया तमारुह्य ययुर्गोलोकमुत्तमम् । राधा कलावती देवीधन्या चायोनिसंभवा
गोलोकाद गता गोप्यश्चायोनिसंभवाश्च ताः । श्रुतिपत्न्यश्च ताः सर्वाः स्वशरीरेण नारद
सर्वे त्यक्त्वा शरीराणि नश्वराणि सुनिश्चितम् । गोलोकं च ययौ राधा सार्घं गोकुलवासिभिः
ददर्श विरजातीर्र नानारत्नविभूषितम् । तदुत्तीर्य ययौ विप्र शतशृङ्गं च पर्वतम्
नानामणिगणाकीर्णं रासमण्डलमण्डितम् । ततो ययौ कियद्दूरं पुण्यं वृन्दावनं वनम्
सा ददर्शाक्षयवटमूर्ध्वे त्रिशतयोजनम् । शतयोजनविस्तीर्णं शाखाकोटिसमावृतम्
रक्तवर्णैः फलौघैश्च स्थूलैरपि विभूषितम् । गोपीकोटिसहस्रैश्च सार्धं वृन्दा मनोहरा
अनुव्रजं सादरं च सस्मिता सा समाययौ । अवरुङ्य रथात्तूर्णं राधां सा प्रणनाम च
रासेश्वरीं तां संभाष्य प्रविवेश स्वमालयम् । रत्नसिंहासने रम्ये हीरहारसमन्विते
वृन्दा तां वासयामास पादसेवनतत्परा । सप्तभिश्च सखीभिश्च सेवितां श्वेतचामरैः
आययुर्गोपिकाः सर्वा द्रष्टुं तां परमेश्वरीम् । नन्दादिकं प्रकल्प्यैतद्राधा वासं पृथकपृथक्
परमानन्दरूपा सा परमानन्दपूर्वकम् । स्ववेश्मनि महारम्ये प्रतस्थे गोपिका सह
_____________________________ इति श्रीब्रह्मवैवर्त महापुराण श्रीकृष्णजन्मखण्ड उत्तरार्द्ध नारदनारायणो संवाद भांडीरवने व्रजजनसमक्षं नन्दं बोधयता कृष्णेन कलिदोषाणां निरूपणम्, अकस्मात्प्राप्तेनाद्भुतरथेन राधादिसर्वगोपीनां गोलोके गमनं च अष्टाविंशत्यधिकशततमोऽध्यायः
अथैकोनत्रिंशदधिकशततमोऽध्यायः नारायण उवाच श्रीकृष्णो भगवांस्तत्र परिपूर्णतमः प्रभुः । दृष्ट्वा सारोक्यमोक्षं च सद्यो गोकुलवासिनाम्
उवास पञ्चभिर्गोपैर्भाण्डीरे वटमूलके । ददर्श गोकुलं सर्व गोकुलं व्याकुलं तथा
अरक्षकं च व्यस्तं च शून्यं वृन्दावनं वनम् । योगेनामृतवृष्ट्या च कृपया च कृपानिधिः
गोपीभिश्च तथा गोपैः परिपूर्णं चकार सः । तथा वृन्दावनं चैव सुरम्यं च मनोहरम्
गोकुलस्थाश्च गोपाश्च समाश्वासं चकार सः । उवाच मधुरं वाक्यं हितं नीतं च दुर्लभम्