मामेव परमं ब्रह्म भगवन्तं सनातनम् । ध्यायंध्यायं पुत्रबुद्धिं त्यक्त्वा लभ परंपदम्
गोलोकं गच्छ शीघ्रं त्वं सार्धं गोकुलवासिभिः। आरात्कलेरागमनं कर्ममूलनिकृन्तनम्
स्त्रीपुंसोर्नियमो नास्ति जातीनां च तथैव च । विप्रेसन्ध्यादिकंनास्ति चिह्नं यज्ञोपवीतकम्
यज्ञसूत्रं च तिलकं शेषं लुप्तं सुनिश्चितम् । दिवाव्यवायनिरतं विरतं धर्मकर्मणि
यज्ञानां च व्रतानां च तपसां लुप्तमेव च। केदारकन्याशापेनधर्मो नास्त्येव केवलम्
स्वच्छन्दगामिनीस्त्रीर्णा पतिश्च सततं वशे । ताडयेत्सततंतं च भर्त्सयेच्छ दिवानिशम्
प्राधान्यं स्त्रीकुटुम्बानां स्त्रीणां च सततं व्रज। स्वामीचभक्तस्तासां च पराभूतो निरन्तरम्
कलौ च योषितः सर्वा जारसेवासु तत्पराः। शतपुत्रसमः स्नेहस्तासां जारे भविष्यति
ददाति तस्मै भक्ष्यं च यथा भृत्याय कोपतः। सस्मिता सकटाक्षा साऽमृतदृष्ट्या निरन्तरम्
जारं पश्यति कामेन विषदृष्ट्या पतिं सदा। सततं गौरवं तासां स्नेहं च जारबान्धवे
पत्यौ करप्रहारं च नित्यं नित्यं करोति च। मिष्टान्नं श्रद्धया भक्त्या जाराय प्रददाति च
वेषयुक्ता च सततं जारसेवनतत्परा। प्राणा बन्धुर्गतिश्चाऽऽत्मा कलौ जारश्चयौषिताम्
लुप्ता चातिथिसेवा च प्रलुप्तं विष्णुसेवनम्। पितृणामर्चनं चैव देवानां च तथैव च
विष्णुवैष्णवयोर्द्वेषी सततं च नरो भवेत्। वाममन्त्रोपासकाश्च चतुर्वर्णाश्च तत्पराः
शालग्रामं च तुलसीं कुशं गङ्गोदकं तथा। नस्पृशेन्मानवो धूर्तो म्लेच्छाचाररतः सदा
कारणं कारणानां च सर्वेषां सर्वबीजकम्। सुखदं मोक्षदं शश्वद्दातारं सर्वसंपदाम्
त्यक्त्वा मां परया भक्त्या क्षुद्रसंपत्प्रदायिनम्। वेदनिघ्नं वाममन्त्रं जपेद्विप्रश्च मायया
सनातनी विष्णुमाया वञ्चितं तं करिष्यति। ममाऽऽज्ञयाभगवती जगतां च दुरत्यया
कलेर्दशसहस्राणि मदर्चा भुवि तिष्ठति । तदर्धानि च वर्षाणि गङ्गा भुवनपावनी
तुलसी विष्णुभक्ताश्च यावद्गङ्गा च कीर्तनम् । पुराणानि च स्वल्पानि तावदेव महीतले
मम चोत्कीर्तनं नास्ति एतदन्ते कलौ व्रज । एकवर्णा भविष्यन्तिकिराता बलिनःशठाः
पित्रोः सेवा गुरोः सेवा सेवा च देवविप्रयोः । विवर्जिता नराः सर्वे चातिथीनां तथैव च
सस्यहीना भवेत्पृथ्वी साऽनावृष्ट्या निरन्तरम् । फलहीनोऽपि वृक्षश्च जलहीना सरित्तथा
वेदहीनो ब्राह्मणश्च बलहीनश्च भूपतिः। जातिहीनाजनाःसर्वे म्लेच्छोभूपोभविष्यति
भृत्यवत्ताडयेत्तातं पुत्रः शिष्यस्तथा गुरुम् । कान्तं च ताडयेत्कान्ता लुब्धकुक्कुटवद्गृही
नश्यन्ति सकला लोकाः कलौ शेषे च पापिनः। सूर्याणामातपात्केचिज्जलौघेनापि केचन
हे गोपेन्द्र प्रतिकलौ न नश्यति वसुंधरा । पुनःसृष्टौ भवेत्सत्यं सत्यबीजं निरन्तरम्
एतस्मिन्नन्तरे विप्र रथमेव मनोहरम् । चतुर्योजनविस्तीर्णमूर्ध्वे च पञ्चयोजनम्
शुद्धस्फटिकसंकाशं रत्नेन्द्रसारनिर्मितम्। अम्लानपारिजातानां मालाजालविराजितम्
मणीनां कौस्तुभानां च भूषणेन विभूषितम् । अमूल्यरत्नकलशं हीरहारविलम्बितम्