इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo सप्तविशत्यधिकशततमोऽध्यायः
अथाष्टाविंशत्यधिकशततमोऽध्यायः नारायण उवाच श्रीकृष्णश्च समाह्वानं गोपांश्चापि चकार सः। भाण्डीरे वटमूले च तत्र स्वयमुवास ह
पुराऽन्नं च ददौ तस्मै यत्रैव ब्राह्मणीगणः। उवास राधिका देवी वामपार्श्वे हरेरपि
दक्षिणे नन्दगोपश्च यशोदासहितस्तथा । तद्दक्षिणो वृषभानस्तद्वामे सा कलावती
अन्ये गोपाश्च गोप्यश्च बान्धवाः सुहृदस्तथा । तानुवाच स गोविन्दो यथार्थ्यं समयोचितम्
श्रीभगवानुवाच शृणु नन्द प्रवक्ष्यामि सांप्रतं समयोचितम्। सत्यं च परमार्थं च परलोकसुखावहम्
आब्रह्मस्तम्बपर्यन्तं भ्रमं सर्वं निशामय। विद्युद्दीप्तिर्जले रेषा यथा तोयस्य बुद्बुदम्
मथुरायां सर्वमुक्तं नावशेषं च किंचन। यशोदां बोधयामास राधिका कदलीवने
तदेव सत्यं परमं भ्रमध्वान्तप्रदीपकम्। विहाय मिथ्यामायां च स्मर तत्परमं पदम्
जन्ममृत्युजराव्याधिहरं हर्षकरं परम्। शोकसंतापहरणं कर्ममूलनिकृन्तनम्
मामेव परमं ब्रह्म भगवन्तं सनातनम् । ध्यायंध्यायं पुत्रबुद्धिं त्यक्त्वा लभ परंपदम्
गोलोकं गच्छ शीघ्रं त्वं सार्धं गोकुलवासिभिः। आरात्कलेरागमनं कर्ममूलनिकृन्तनम्
स्त्रीपुंसोर्नियमो नास्ति जातीनां च तथैव च । विप्रेसन्ध्यादिकंनास्ति चिह्नं यज्ञोपवीतकम्
यज्ञसूत्रं च तिलकं शेषं लुप्तं सुनिश्चितम् । दिवाव्यवायनिरतं विरतं धर्मकर्मणि
यज्ञानां च व्रतानां च तपसां लुप्तमेव च। केदारकन्याशापेनधर्मो नास्त्येव केवलम्
स्वच्छन्दगामिनीस्त्रीर्णा पतिश्च सततं वशे । ताडयेत्सततंतं च भर्त्सयेच्छ दिवानिशम्
प्राधान्यं स्त्रीकुटुम्बानां स्त्रीणां च सततं व्रज। स्वामीचभक्तस्तासां च पराभूतो निरन्तरम्
कलौ च योषितः सर्वा जारसेवासु तत्पराः। शतपुत्रसमः स्नेहस्तासां जारे भविष्यति
ददाति तस्मै भक्ष्यं च यथा भृत्याय कोपतः। सस्मिता सकटाक्षा साऽमृतदृष्ट्या निरन्तरम्
जारं पश्यति कामेन विषदृष्ट्या पतिं सदा। सततं गौरवं तासां स्नेहं च जारबान्धवे
पत्यौ करप्रहारं च नित्यं नित्यं करोति च। मिष्टान्नं श्रद्धया भक्त्या जाराय प्रददाति च
वेषयुक्ता च सततं जारसेवनतत्परा। प्राणा बन्धुर्गतिश्चाऽऽत्मा कलौ जारश्चयौषिताम्
लुप्ता चातिथिसेवा च प्रलुप्तं विष्णुसेवनम्। पितृणामर्चनं चैव देवानां च तथैव च
विष्णुवैष्णवयोर्द्वेषी सततं च नरो भवेत्। वाममन्त्रोपासकाश्च चतुर्वर्णाश्च तत्पराः
शालग्रामं च तुलसीं कुशं गङ्गोदकं तथा। नस्पृशेन्मानवो धूर्तो म्लेच्छाचाररतः सदा
कारणं कारणानां च सर्वेषां सर्वबीजकम्। सुखदं मोक्षदं शश्वद्दातारं सर्वसंपदाम्
त्यक्त्वा मां परया भक्त्या क्षुद्रसंपत्प्रदायिनम्। वेदनिघ्नं वाममन्त्रं जपेद्विप्रश्च मायया
सनातनी विष्णुमाया वञ्चितं तं करिष्यति। ममाऽऽज्ञयाभगवती जगतां च दुरत्यया
कलेर्दशसहस्राणि मदर्चा भुवि तिष्ठति । तदर्धानि च वर्षाणि गङ्गा भुवनपावनी
तुलसी विष्णुभक्ताश्च यावद्गङ्गा च कीर्तनम् । पुराणानि च स्वल्पानि तावदेव महीतले