तया युक्तः सदाऽऽत्मा च भगवांस्तेन कथ्यते
तेजोरूपं निराकारं ध्यायन्ते योगिनः सदा
अदृश्यं सर्व द्रष्टारं सर्वज्ञं सर्वकारणम्
वैष्णवास्ते न मन्यन्ते तद्भक्ताः सूक्ष्मदर्शिनः
तेजोमण्डलमध्यस्थं ब्रह्म तेजस्विनं परम्
अतीवसुन्दरं रूपं बिभ्रतं सुमनोहरम्
नवीननीरदाभासं रासैकश्यामसुन्दरम्
मुक्तासारमहास्वच्छदन्तपङ्क्तिमनोहरम्
सुनासं सस्मितं शश्वद्भक्तानुग्रहकारकम् 2.2.
द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम्
सर्वैश्वर्य्यप्रदं सर्वं स्वतन्त्रं सर्वमङ्गलम्
ध्यायन्ते वैष्णवाः शश्वदेवंरूपं सनातनम्
ब्रह्मणो वयसा यस्य निमेष उपचार्य्यते
कृषिस्तद्भक्तिवचनो नश्च तद्दास्यकारकः
कृषिश्च सर्ववचनो नकारो बीजवाचकः
असंख्यब्रह्मणा पाते कालेऽतीतेऽपि नारद
स कृष्णः सर्वसृष्ट्यादौ सिसृक्षुस्त्वेक एव च
स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह
तां ददर्श महाकामी कामाधारः सनातनः 2.2.
पूर्णेन्दुबिम्बसदृशनितम्वयुगलां पराम्
श्रीयुक्तश्रीफलाकारस्तनयुग्ममनोरमाम्
अतीव सुन्दरीं शान्तां सस्मितां वक्रलोचनाम्
शश्वच्चक्षुश्चकोराभ्यां पिबन्तीं सन्ततं मुदा
कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना
सुवक्रकबरीभारं मालतीमाल्यभूषितम्
कोटिचन्द्रप्रभाजुष्टपुष्टशोभासमन्विताम्
अतिमात्रं तया सार्द्धं रासेशो रासमण्डले
नानाप्रकारशृंगारं शृङ्गारो मूर्त्तिमानिव
ततः स च परिश्रान्तस्तस्या योनौ जगत्पिता 2.2.
गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत