अरुणोदयकालेऽपि न त्यजेन्माधवं सती । माधवः प्रीतिवचसा बोधयामास साघनात्
प्रातः कृत्यं ततः कृत्वा स्वारुरोह रथं हरिः । गोपीभी राधया सार्धं शरत्कमललोचनः
योजनायतविस्तीर्ण गृहेस्त्रिशतकोटिभिः । मणीन्द्रसारनिर्माणैर्ज्वलद्भिरुपशोभितम्
गोलोकादागतं तत्र मनोयायि मनोहरम् । सहस्रचक्रसंयुक्तं महस्राश्वैः प्रचालितम्
मणिस्तम्भैश्त्रिकोटीभी रत्नराजिविराजितम् । मुक्तामाणिक्यपरमैर्हीरहारैः सुशोभितम्
नानाचित्रैर्विचित्रैश्च श्वेतचामरदर्पणैः । वह्निशुद्धांशुकैर्दीप्तैर्मालाजालैर्विभूषितम्
रत्निर्माणतल्पैश्च पुष्पचन्दनचर्चितम् । समानरूपवेषैश्च गोपीलक्षैः समावृतम्
रथेन तेन भगवान्पुनर्वृन्दावनं ययौ । तत्र गत्वा निशाकाले विजहार जले स्थले
शृङ्गारं सुचिरं कृत्वा वनेषूपवनेषु च । राधिकां दर्शयामास यथासर्व च नूतनम्
विस्पन्दके सुरसने माहेन्द्रे नन्दने वने । सुमेरुशिखरे रम्ये पर्वते गन्धमादने
शैले शैले सुन्दरे च कन्दरे कन्दरे वने । पुष्पोद्याने सुरहसि नद्यां नद्यां नदे नदे
समुद्रपुलिने रम्ये पारिजातवने वने । सुभद्रे पुष्पभद्रे च नारायणसरोवरे
पवनस्यैव निलये मलये च सुरालये । त्रिकूटे भद्रकूटे च पञ्चकूटे सुकूटके
देवानां कमनीयायां काञ्चन्यां च तथैव च । समुद्रे च समुद्रे च द्वीपे द्वीपे मनोहरे
खर्वटे प्रवरे रम्ये पुण्यचन्द्रसरोवरे । सुपार्श्वे मुनिपार्श्वे च स रेमे राधया सह
शीघ्रं च पुनरागत्य जम्बूद्वीपं च पुण्यदम् । द्वारकां दर्शयामास पर्वतं रैवतं तथा
गोकुलं पुनरागत्य गोपगोकुलसंकुलम् । तत्र दृष्ट्वा च भाण्डीरं पुण्यं वृन्दावनं ययौ
श्रीकृण्णागमनं श्रुत्वा यशोदा नन्द एव च । गोपा गोप्यश्च वृद्धाश्चाप्यश्रुनेत्रा निराकुलाः
वारणेन्द्रं पुरस्कृत्य वेश्यां च नटनर्तकाः । पतिपुत्रवतीं साध्वीं ब्राह्मणीं ब्राह्मणं तथा
यथा देवाश्च वह्निं च दृष्ट्वा नन्दं च मातरम् । आययुर्बालकृष्णश्च राधया सह माधवः
मातुः क्रोडमारुरोह प्रहस्य मधुसूदनः । नन्दो यशोदया सार्ध चुचुम्ब मुखपङ्कजम्
आश्लिश्य भृशमुच्चैश्च सिषेच नेत्रजैर्जलैः । स्वयं च भगवान्कृष्णो यशोदायाः स्तनं पपौ
तादृशं ददृशुः सर्वे यादृशो मथुरां ययौ । मुरलीहस्तविन्यस्तं रत्नभूषणभूषितम्
यथैकादशवर्षीयं शोभितं पीतवाससा । मयूरपिच्छचूडं च मालतीमाल्यमण्डितम्
मन्दिरं वेशयामास राधया सह माधवम् । यशोदा मङ्गलं कृत्वा भोजयामास ब्राह्मणान्
पूजां चकार गोपीनां मुनीनां च यथा जनः । मणिरत्नं प्रवालं च सुवर्ण परमं तथा
भुक्तामाणिक्यहीरं च ब्राह्मणेभ्यो ददौ मुदा । गजरत्नं गवां रत्नमश्वरत्नं मनोहरम्
आसनानि च पात्राणि भूषणानि तथैव च । धान्यान्यपि च सस्यानि वस्त्राणि च तथा ददौ
अपूर्व दर्शयामास राधया सह माधवम् । गोपीगणं च मिष्टान्नं सादरेणापि नारद
दुन्दुभीन्वादयामास कारयामास मङ्गलम् । देवांश्च भोजयामास सानन्दं च मनोहरम्