अहं नारायणर्षिश्च नरो धर्मः सनातनः । धर्मवक्ता च धर्मिष्ठो धर्मवर्त्मप्रवर्तकः
शान्तिर्लक्ष्मीस्वरूपा च धर्मिष्ठा च पतिव्रता । अत्र तस्याः पतिरहं पुण्यक्षेत्रे च भारते
सिद्धेशः सिद्धिदः साक्षात्कपिलोऽहं सतीपतिः । नानारूपधरोऽहं च व्यक्तिभेदेन सुन्दरि
अहं चतुर्भुजः शश्वद्द्वार्वत्यां रुक्मिणीवतिः । अहं क्षीरोदशायी च सत्यभामागृहे शुभे
अन्यासां मन्दिरेऽहं च कायव्यूहात्पृथक्पृथक् । अहं नारायणर्षिश्च फाल्गुनस्यास्य सारथिः
स नरर्षिर्धर्मपुत्रो मदंशो बलवान्भुवि । तपसाऽऽराधितस्तेन सारथ्येऽहं च पुष्करे
यथा त्वं राधिका देवी गोलेके गोकुले तथा । वैकुण्ठे च महालक्ष्मीर्भवती च सरस्वती
भवती मर्त्यलक्ष्मीश्च क्षीरोदशायिनः प्रिया । धर्मपुत्रवधूस्त्वं च शान्तिर्लक्ष्मीस्वरूपिणी
कपिलस्य प्रिया कान्ताभारते भवती सती । त्वं सीता मिथिलायां च त्वच्छाया द्रौपदी सती
द्वारवत्यां महाल्क्ष्मीर्भवती रुक्मिणी सती । पञ्चानां पाण्डवानां च भवती कलया प्रिया
रावणेन हृता त्वं च स्वं च रामस्य कामिनी । नानारूपा यथा त्वं च च्छायया कलया सती
नानारूपस्तथाऽहं च श्वांशेन कलया तथा । परिपूर्णतमोऽहं च परमात्मा परात्परः
इति ते कथितं सर्वमाध्यात्मिकमिदं सति । राधे कर्वापराधं मे क्षमस्व परमेश्वरी
श्रीकृष्णवचनं श्रुत्वा परितुष्टा च राधिका । परितुष्टाश्च गोप्यश्च प्रणेमुः परमेश्वरम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo षड्विंशत्यधिकशततमोध्यायः
अथ सप्तविंशत्यधिकशततमोऽध्यायः नारायण उवाच श्रीकृष्णवचनं श्रुत्वा प्रहृष्टा गोपिका मुदा । मन्दिरं प्रययुः सर्वाः प्रणम्य राधिकां प्रभुम्
राधाशृङ्गारभावं च कलाषोडशपूर्वकम् । चकार सस्मिता साध्वी वक्रचञ्चललोचना
दत्त्वा च चन्दनं माल्यं स्वामिने पुनरेव च । रहस्यं च परीहास्यं पुनरेव चकार सः
आकृष्य राधिकां कृष्णः समानीय स्ववक्षसि । ओष्ठाधरं कपोलं च गण्डयुग्मं चुचुम्ब च
राधा चुचुम्ब कृष्णस्य मुखचन्द्रं मनोहरम् । चकार कृष्णं प्राणेशं बाहुभ्यां च स्ववक्षसि
शृङ्गारं षोडशविर्धं कामशास्त्रोक्तमीप्सितम् । स्त्रीपुंसोस्तोषजनकं चकार भगवान्प्रभुः
नखविक्षतसर्वाङ्गा दशनेनाधरक्षता । पुलकाञ्चितदेहा स तन्द्रिता वामनस्तनी
मीर्च्छिता सुखसंभोगाद्विलग्ना हतचेतना । श्वासमात्रावशेषा च निद्रामुद्रितलोचना
रतिशूरा कोमलाङ्गी कान्तावक्षः स्यलस्थिता । शीते सुखोष्णसर्वाङ्गी ग्रीष्मे सा सुखशीतला
शृङ्गारकाले सुखदा सान्द्रश्रोणिपयोधरा । नितम्बभारानम्रा च प्रसङ्गे सुखदायिका
विदग्धा रसिका श्रेष्ठा कामुकी च वराङ्गना । सहसा चेतनं प्राप्य शुश्राव कोकिलध्वनिम्
श्रुत्वा परमभीता सा दीना दीनविशङ्कया । उवाच परमा सा च परमेशं परात्परम् बाहुश्रोणियुगाम्यां च निबध्य च पुनः पुनः
राधिकोवाच रासं गच्छ महाभाग पुण्यं वृन्दावनं वनम् । तत्र क्रीडां करिष्यामि जलेन च स्थलेन च
पुनर्यास्यामि मलयं सुन्दरं मणिमन्दिरम् । अपरं यद्रहस्यं वा जन्मला न श्रुतं मया
तत्र यामि त्वया सार्धमिति मे लालसा परा । परस्परैकालापेन प्रययौ रजनी शुभा