उवाच जीवयामास मुधादृष्ट्या च नारद । उत्तस्थौ राधिका देवी रुदती मानिनी सती
गोप्यस्तां बोधयामासुःक्रोडे कृत्वा पुनः पुनः
श्रीकृष्ण उवाच श्रृणु राधे प्रवक्ष्यामि ज्ञानमाध्यात्मिकं परम् । यच्छ्रुत्वा हालिको मूर्खः सद्यो भवति पण्डितः
जात्याऽहं चगतां स्वामी किं रुक्मिण्यादियोषिताम् । कार्यकारणरूपोऽहं व्यक्तो राधे पृथक् पृथक्
एकात्माऽहं च विश्वेषां जात्या ज्योतिर्मयः स्वयम् । सर्वप्राणिषु व्यक्त्या चाप्याब्रह्मादितृणादिषु
एकस्मिंश्च भुक्तवति न तुष्टोऽन्यो जनस्तथा । मय्यात्मनि गतेऽप्येको मृतोऽप्यन्यः सुजीवति
जात्याऽहं कृष्णरूपश्च परिपूर्णतमः स्वयम् । गोलोके गोकुले पुण्ये क्षेत्रे वृन्दावने वने
द्विभुजो गोपवेषश्च स्वयं राधापतिः शिशुः । गोपालैर्गोपिकाभिश्च सहितः कामधेनुभिः
चतुर्भुजोऽहं वैकुण्ठे द्विधारूपः सनातनः । लक्ष्मीसरस्वतीकान्तः सततं शान्तविग्रहः
यन्मानसी सिन्धुकन्या मर्त्यलक्ष्मीपतिर्भुवि । श्वेतद्वीपे च श्रीरीदे तत्रापि च चतुर्भुजः
अहं नारायणर्षिश्च नरो धर्मः सनातनः । धर्मवक्ता च धर्मिष्ठो धर्मवर्त्मप्रवर्तकः
शान्तिर्लक्ष्मीस्वरूपा च धर्मिष्ठा च पतिव्रता । अत्र तस्याः पतिरहं पुण्यक्षेत्रे च भारते
सिद्धेशः सिद्धिदः साक्षात्कपिलोऽहं सतीपतिः । नानारूपधरोऽहं च व्यक्तिभेदेन सुन्दरि
अहं चतुर्भुजः शश्वद्द्वार्वत्यां रुक्मिणीवतिः । अहं क्षीरोदशायी च सत्यभामागृहे शुभे
अन्यासां मन्दिरेऽहं च कायव्यूहात्पृथक्पृथक् । अहं नारायणर्षिश्च फाल्गुनस्यास्य सारथिः
स नरर्षिर्धर्मपुत्रो मदंशो बलवान्भुवि । तपसाऽऽराधितस्तेन सारथ्येऽहं च पुष्करे
यथा त्वं राधिका देवी गोलेके गोकुले तथा । वैकुण्ठे च महालक्ष्मीर्भवती च सरस्वती
भवती मर्त्यलक्ष्मीश्च क्षीरोदशायिनः प्रिया । धर्मपुत्रवधूस्त्वं च शान्तिर्लक्ष्मीस्वरूपिणी
कपिलस्य प्रिया कान्ताभारते भवती सती । त्वं सीता मिथिलायां च त्वच्छाया द्रौपदी सती
द्वारवत्यां महाल्क्ष्मीर्भवती रुक्मिणी सती । पञ्चानां पाण्डवानां च भवती कलया प्रिया
रावणेन हृता त्वं च स्वं च रामस्य कामिनी । नानारूपा यथा त्वं च च्छायया कलया सती
नानारूपस्तथाऽहं च श्वांशेन कलया तथा । परिपूर्णतमोऽहं च परमात्मा परात्परः
इति ते कथितं सर्वमाध्यात्मिकमिदं सति । राधे कर्वापराधं मे क्षमस्व परमेश्वरी
श्रीकृष्णवचनं श्रुत्वा परितुष्टा च राधिका । परितुष्टाश्च गोप्यश्च प्रणेमुः परमेश्वरम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo षड्विंशत्यधिकशततमोध्यायः
अथ सप्तविंशत्यधिकशततमोऽध्यायः नारायण उवाच श्रीकृष्णवचनं श्रुत्वा प्रहृष्टा गोपिका मुदा । मन्दिरं प्रययुः सर्वाः प्रणम्य राधिकां प्रभुम्
राधाशृङ्गारभावं च कलाषोडशपूर्वकम् । चकार सस्मिता साध्वी वक्रचञ्चललोचना
दत्त्वा च चन्दनं माल्यं स्वामिने पुनरेव च । रहस्यं च परीहास्यं पुनरेव चकार सः
आकृष्य राधिकां कृष्णः समानीय स्ववक्षसि । ओष्ठाधरं कपोलं च गण्डयुग्मं चुचुम्ब च
राधा चुचुम्ब कृष्णस्य मुखचन्द्रं मनोहरम् । चकार कृष्णं प्राणेशं बाहुभ्यां च स्ववक्षसि