रसिका स्त्री विजानाति सती गुणवती पतिम् । गुणज्ञं रसिकं शूरं सुशीलं सुरतौ सदा
दूराद्धावति पद्मार्थ मधुलोभान्मध्रुव्रतः । भेकस्तन्न हि जानाति तन्मूर्ध्नि पादमुत्सृजेत्
यन्त्री जानाति संगीतरसं यन्त्रं च नैव च । दुग्धास्वादं विदग्धश्च न दर्वी नैव भाजनम्
परिपक्वफलास्वादं जानन्ति भोगिनः सुखम् । एकत्रावस्थिताः शश्वन्नकिंचित्फलिनो यथा
सुशीलजलास्वादं विजानन्ति तृषाल्वः । न च वापी न घटश्चैकत्रावस्थितो यथा
भोकिनो हि विजानन्ति शालिस्वादुरसं परम् । एकत्रावस्थितं चेतु न क्षेत्रं भाजनं यथा
बुबुधे चन्दनाघ्रणं चन्दनार्थी च भोगवित् । न गर्दभो भारवाही न तस्य पात्रिका यथा
यं न यानन्ति वेदाश्च ब्रह्मेशानादयस्तथा । योगिनो मुनयः सिद्धास्तं किं जानन्ति योषितः
सौभाग्यं गौरवं प्रेम दुर्लभं नित्यनूतम् । यौषितां च परं नैव चूर्णीभूतं क्षणेन च
अत्युच्छ्रितो निपतनं प्राप्नोत्येव ध्रुवं प्रभो । आराद्विपत्तिबीजं च वैष्णवानां विहिंसनम्
श्रीदामा च मया शप्तस्त्वद्भक्तो भक्तवत्सलः । एतादृशी विपत्तिर्मे पुत्रश्रीदामशापतः
ईश्वरः कस्य वा बन्धुः प्रियो वा विप्रियस्तथा । सततं भक्तिसाध्यश्च यो भक्तश्च तदीश्वरः
वेदाश्च वैदिकाः सन्तः पुराणानि वदन्ति च । राधाया माधवः साध्यो भगवानिति निष्फलम्
जित्वा च सगणं शंभुं बाणस्य भुजकृन्तनम् । कृत्वा च रुक्मिणीपौत्रः समानीतः सभार्यकः
अहो त्वयि समायाते रुक्मिणी किमुवाच ह । प्रेम स्थितं समानं ते किं विवृद्धं च गौरवम्
कुरुपाण्डवयुद्धेन कुरवो निहतास्त्वया । पाण्डवार्थे तथा भूपाः क्व साम्यं परमात्मनः
साक्षान्महेन्द्रजातस्य कौन्तेयस्यार्जुनस्य च । राजमण्डलम्ध्यस्थो भवानेव हि सारथिः
तेन भक्तेन शुद्धेन भीष्मेण च महात्मना । लज्जितेन किमुक्तं ते महतीषु मभासु च
देवैरपि कथं दृष्टो ब्रह्मेशशेसंषज्ञकैः । भक्तसिहैर्भृत्तैः सर्वैर्न चोक्तं किंचिदेव सः
यश्चानिर्वचनीयश्च वेदेषु च चतुर्षु च । पुराणेष्वितिहासेषु प्रकृतेः पर ईश्वरः
निर्गुणच नीरीहश्च निर्लिप्तः सर्वकर्मणाम् । कर्मणां साक्षिरूपश्च भक्तानुग्रहविग्रहः
परं ब्रह्म परं ज्योतिः परमेशः परात्परः । परमात्मा च सर्वेषां सूतो नररथस्थितः
त्वया कुब्जा च संभुक्ता वृद्धा क्षत्रियकामिनी । अपुत्रिणी चाधिकाङ्गी यूनाऽस्पृश्या च
त्वया च निहतः कंसो मातुलः केन हेतुना । आयास्यतीति कृत्वा च गत्तं न पुनरागतम्
निहत्य यादवान्सर्वान्विभज्य द्वारकां पुरीम् । त्वां निबध्य समानेतुमीश्वरी वारिता जनैः
इत्युक्त्वा राधिका देवी भृशमुच्चै रुरोद सा । मूर्च्छां संप्राप सहसा निनिःश्वासा बभूव ह
गोप्यो गवाक्षजालस्थाः शुश्रुवुर्ददृशुस्तथा । दृष्ट्वा तमाययुः सर्वा ऊचू राधा मृतेति च
उच्चैस्ता रुरुदुः सर्वाः क्रोडे कृत्वा च राधिकाम् । ऊचुस्ता रक्षरक्षेति हरे नरहरे प्रभो
गोप्य ऊचुः किं कृतं किं कृतं कृष्ण त्वया राधा मृता च नः । राधां जीवय भद्रं ते यास्यामः काननं वयम्
अन्यथा स्त्रीवधं तुभ्यं दास्यामः सर्वयोषितः । गोपीनां वचनं श्रुत्वा राधिकायाश्च माधवः