सृष्टेराद्या सृष्टिविधौ कथमाविर्बभूव ह
भूता या याश्च कलया तया त्रिगुणया भवे
तासां जन्मानुकथनं ध्यानं पूजाविधिं परम्
श्रीनारायण उवाच विश्वेषां गोकुलं नित्यं नित्यो गोलोक एव च
तदेकदेशो वैकुण्ठो लम्बभागः स नित्यकः
यथाऽग्नौ दाहिका चन्द्रे पद्मे शोभा प्रभा रवौ
विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः
नहि क्षमस्तथा ब्रह्मा सृष्टिं स्रष्टुं तया विना
ऐश्वर्य्यवचनः शक् च तिः पराक्रमवाचकः 2.2.
समृद्धिबुद्धिसम्पत्तियशसां वचनो भगः
तया युक्तः सदाऽऽत्मा च भगवांस्तेन कथ्यते
तेजोरूपं निराकारं ध्यायन्ते योगिनः सदा
अदृश्यं सर्व द्रष्टारं सर्वज्ञं सर्वकारणम्
वैष्णवास्ते न मन्यन्ते तद्भक्ताः सूक्ष्मदर्शिनः
तेजोमण्डलमध्यस्थं ब्रह्म तेजस्विनं परम्
अतीवसुन्दरं रूपं बिभ्रतं सुमनोहरम्
नवीननीरदाभासं रासैकश्यामसुन्दरम्
मुक्तासारमहास्वच्छदन्तपङ्क्तिमनोहरम्
सुनासं सस्मितं शश्वद्भक्तानुग्रहकारकम् 2.2.
द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम्
सर्वैश्वर्य्यप्रदं सर्वं स्वतन्त्रं सर्वमङ्गलम्
ध्यायन्ते वैष्णवाः शश्वदेवंरूपं सनातनम्
ब्रह्मणो वयसा यस्य निमेष उपचार्य्यते
कृषिस्तद्भक्तिवचनो नश्च तद्दास्यकारकः
कृषिश्च सर्ववचनो नकारो बीजवाचकः
असंख्यब्रह्मणा पाते कालेऽतीतेऽपि नारद
स कृष्णः सर्वसृष्ट्यादौ सिसृक्षुस्त्वेक एव च
स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह
तां ददर्श महाकामी कामाधारः सनातनः 2.2.
पूर्णेन्दुबिम्बसदृशनितम्वयुगलां पराम्