सुधापूर्गं सुधापात्रं ददौ भक्त्या सुधामुखी । चकार पुष्पशय्यां च गोपी चन्दनचर्चिताम्
अम्लानमालतीपुष्पमालाजालविभूषिताम् । रत्नेन्द्रसारनिर्माणमन्दिरे सुमनोहरे
मणीन्द्रमुक्तामाणिक्यहीरहारविभूषिते । कस्तूरीकुङ्कुमाक्तेन वायुना सुरभीकृते
रत्नप्रदीपशतकैर्ज्वलद्भिश्च सुदीपिते । धूपिते सततं धूपैर्नानावस्तुसमन्वितैः
कृत्वा शय्यां रतिकरीं ययुर्गोप्यश्च सस्मिताः । दृष्ट्वा रहसि तल्पं च सुरम्यं सुमनोहरम्
माधवो राघया सार्ध विवेश रतिमन्दिरम् । नानाप्रकारहास्यं च परिहासं स्मरोचितम्
द्वयोर्बभूव तल्पे च मदनातुरयोस्तथा । माल्यं ददौ च कृष्णाय ताम्बूलं च सुवासितम्
कस्तूरीकुङ्कुमाक्तं च चन्दनं श्यामवक्षसि । चारुचम्पकपुष्पं च चूडायां प्रददौ सती
सहस्रदलससंक्तक्रीडापद्मं करे ददौ । प्रक्षिप्य मुरलीं हस्तात्प्रददौ रत्नदर्पणम्
पारिजातस्य कुसुममम्लानं पुरतो ददौ । उवाच मधुरं राधा रहस्ये मधुरं वचः सस्मिता सस्मितं शान्तं कान्तं कान्ता मनोहरम्
राधिकोवाच निष्फलं मङ्गलप्रश्तं मङ्गले मङ्गलालये । सर्वमङ्गलबीजे च माङ्गल्ये मङ्गलप्रदे
तथाऽपि कुशलप्रश्ने सांप्रतं समयोचितम् । लौकिको व्यवहारोऽपि वेदेभ्यो बलवांस्तथा
कुशलं रुक्मिणीकान्त सत्यभामेश सांप्रतम् । महन्द्रेण समं युद्धं लीलया च यदाज्ञया
पारिजाततरुं स्वर्गादुत्पाट्य चामरावतीम् । गत्वा विजित्य देवांश्च तस्यै दसमिति श्रुतम्
पुण्यकं च कृतं तेन पारिजातेन सुव्रतम् । त्वामेव साध्यं कान्तं च संपूर्णे दक्षिणां ददौ
ब्रह्मेशशेषासाध्यस्त्वं तया साध्यः कृतः कथम् । सर्वभ्यः कामिनीभ्यश्च सत्यभामां बिभेषि च
रुक्मिण्यां प्रेमसौभाग्यमतिरिक्तं च गौरवम् । भयं माल्यं च धन्यायां सत्यायां सततं श्रुतम्
सत्यं जाम्बवतीकान्त वद मां च सुनिश्चितम् । तासु सर्वासु कान्तासु कस्यास्ते प्रेम चाधिकम्
शृङ्गारे सर्वभावे वा तासु का रसिका परा । त्वयि स्निग्धा विदग्धा का तामु धन्याऽतिसुव्रता
सा स्त्री भावानुरक्ता या भार्यां पाति पतिश्च सः । प्रेमातिरिक्तं स्त्रीपुंसोस्त्रैलोक्येषु सुदुर्लभम्
रसिका स्त्री विजानाति सती गुणवती पतिम् । गुणज्ञं रसिकं शूरं सुशीलं सुरतौ सदा
दूराद्धावति पद्मार्थ मधुलोभान्मध्रुव्रतः । भेकस्तन्न हि जानाति तन्मूर्ध्नि पादमुत्सृजेत्
यन्त्री जानाति संगीतरसं यन्त्रं च नैव च । दुग्धास्वादं विदग्धश्च न दर्वी नैव भाजनम्
परिपक्वफलास्वादं जानन्ति भोगिनः सुखम् । एकत्रावस्थिताः शश्वन्नकिंचित्फलिनो यथा
सुशीलजलास्वादं विजानन्ति तृषाल्वः । न च वापी न घटश्चैकत्रावस्थितो यथा
भोकिनो हि विजानन्ति शालिस्वादुरसं परम् । एकत्रावस्थितं चेतु न क्षेत्रं भाजनं यथा
बुबुधे चन्दनाघ्रणं चन्दनार्थी च भोगवित् । न गर्दभो भारवाही न तस्य पात्रिका यथा
यं न यानन्ति वेदाश्च ब्रह्मेशानादयस्तथा । योगिनो मुनयः सिद्धास्तं किं जानन्ति योषितः
सौभाग्यं गौरवं प्रेम दुर्लभं नित्यनूतम् । यौषितां च परं नैव चूर्णीभूतं क्षणेन च
अत्युच्छ्रितो निपतनं प्राप्नोत्येव ध्रुवं प्रभो । आराद्विपत्तिबीजं च वैष्णवानां विहिंसनम्