दृष्ट्वा च दूरतो राधा श्रीकृष्णं प्राणवल्लभम् । शिशुवेषं सुवेषं च सुन्दरेशं च सस्मितम्
नवींनजलदश्यामं पींतकौशेयवाससम् । चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम्
मयूरपिच्छचूडं च मालतीमाल्यशोभितम् । ईषद्धास्यप्रसन्नास्यं भक्तानुप्रहविग्रहम्
क्रीडाकमलमम्लानं धृतवन्तं मनोहरम् । मुरलीहस्तविन्यस्तं सुप्रशस्तं च दर्पणम्
जवेन च समुत्थाय गोपीभिः सह सादरम् । प्रणम्य परया भक्त्या तुष्टाव परमेश्वरम्
राधिकोवाच अद्य मे सफलं जन्मजीवितं च सुजीवितम् । यद्दृष्ट्वा मुखचन्द्रं ते सुस्निग्धं लोचनं मनः
पञ्च प्राणाश्च स्निग्धाश्च परमात्मा च सुप्रियः । उभयोर्हर्षबीजं च दुर्लभं बन्धुदर्शनम्
शोकार्णवे निमग्नाऽहं प्रदग्धा विरहानलैः । त्वद्दृष्ट्याऽमृतवृष्ट्या च सुसिक्ताऽद्य सुशीतला
शिवा शिवप्रदाऽहं च शिवबीजा त्वया सह । शि (श) व स्वरूपा निश्चेष्टाऽप्यदृश्या च त्वया विना
त्वयि तिष्ठति देहे च देही श्रीमाञ्छुचिः स्वयम् । सर्वशक्तिस्वरूपा च शिवरूपा गते त्वयि
स्त्रीपुंसो विंरहो नाथसामान्यश्च सुदारुणः । यान्त्येव शक्तिभिः प्राणा विच्छेदात्परमात्मनः
इत्युक्त्वा राधिका वेवी परमात्मानमीश्वरम् । स्वासने वासयासास कृत्वा पादार्चनं मुदा
रत्नसिंहासने श्रीमानुवास राधया सह । गोपीभिः सप्तभिः शश्वत्सेवितः श्वेतचामरैः
चन्दना सा ददौ गात्रे सुगन्धि चन्दनं हरेः । सस्मिता रत्नमाला सा रत्नमालां गले ददौ
पद्मैः पद्मार्चिते पादपद्मे पद्मावती सती । अर्ध्या ददौ सा सजलं दूर्वा पुष्पं च चन्दनम्
मालतो मालतीमाल्यं चूडायां च हरेर्ददौ । चम्पापुष्पस्य पुटकं ददौ चम्पावती सती
पारिजाता च हरये पारिजातं ददौ मुदा । सकर्पूरं च ताम्बूलं वासितं शीतलं जलम्
ददौ कदम्बमाला सा कदम्बमालिकां शुभाम् । क्रीडाकमलमम्लानममूल्यं र्तनदर्पणम्
ददौ हस्ते हरेरेव कमला सा सुकोमला । वरुणेन पुरा दत्तं वस्त्रयुग्मं च सुन्दरम्
साक्षाद्गोरोचनाभं च सुन्दरी हरये ददौ । मधुपात्रं मधुस्तस्मै मधुरं मधुपूर्णकम्
सुधापूर्गं सुधापात्रं ददौ भक्त्या सुधामुखी । चकार पुष्पशय्यां च गोपी चन्दनचर्चिताम्
अम्लानमालतीपुष्पमालाजालविभूषिताम् । रत्नेन्द्रसारनिर्माणमन्दिरे सुमनोहरे
मणीन्द्रमुक्तामाणिक्यहीरहारविभूषिते । कस्तूरीकुङ्कुमाक्तेन वायुना सुरभीकृते
रत्नप्रदीपशतकैर्ज्वलद्भिश्च सुदीपिते । धूपिते सततं धूपैर्नानावस्तुसमन्वितैः
कृत्वा शय्यां रतिकरीं ययुर्गोप्यश्च सस्मिताः । दृष्ट्वा रहसि तल्पं च सुरम्यं सुमनोहरम्
माधवो राघया सार्ध विवेश रतिमन्दिरम् । नानाप्रकारहास्यं च परिहासं स्मरोचितम्
द्वयोर्बभूव तल्पे च मदनातुरयोस्तथा । माल्यं ददौ च कृष्णाय ताम्बूलं च सुवासितम्
कस्तूरीकुङ्कुमाक्तं च चन्दनं श्यामवक्षसि । चारुचम्पकपुष्पं च चूडायां प्रददौ सती
सहस्रदलससंक्तक्रीडापद्मं करे ददौ । प्रक्षिप्य मुरलीं हस्तात्प्रददौ रत्नदर्पणम्
पारिजातस्य कुसुममम्लानं पुरतो ददौ । उवाच मधुरं राधा रहस्ये मधुरं वचः सस्मिता सस्मितं शान्तं कान्तं कान्ता मनोहरम्