यत्र साक्षाच्च यज्ञेशो यज्ञोऽयं दक्षिणा सह । बूर्णाहुतिं दत्तवन्तं वसुदेवमुवाच सः
सनत्कुमार उवाच सर्वस्वं दक्षिणां देहि तुर्णं लक्ष्मीपतेः पितः । सार्थकं कुरु कर्मेदं वेदोक्तं वचनं श्रुणु
दक्षिणां विप्रमुद्दिश्य तत्कालं चेन्न दीयते । मुहूर्ते तु व्यतीते सा दक्षिणा द्विगुणा भवेत्
वासरे च बहिर्भूते भवेत्साऽपि चतुर्गुणा । त्रिरात्रे समतीते षड्गुणा दक्षिणा भवेत्
पक्षान्ते तु शतगुणा मासान्ते तु चतुर्गुणा । षण्मासेऽप्यधिके न्यूने च साहस्त्रगुणा तथा
वर्षान्ते सा लक्षगुणा ब्रह्मणोक्तं च याटव । उभौ च नरकं यांतः कर्मकर्तृपुरोहितौ
वासुदैवश्च तच्छुत्वा सर्वस्वमुत्ससर्जं सः । अधिकारांश्च साह् लादो वासुदेवाज्ञया तथा
अमूल्यानां च रत्नानां दशकोटिमनुत्तममा । ददौ गर्गाय सर्वादौ स्वयं लक्ष्मौपतेः पिता
शतकोटिं मणीन्द्राणां स्वर्णानां तच्चर्तुगुणम् । माणिक्यानां च मुक्तानां हीरकाणां तथैव च
रौप्यं प्रवालं परमं स्वर्णपात्राणि यानि च । स्वस्त्रीणां स्ववधूनां चाप्यमूल्यरत्नभूषणम्
श्वेतचामरलक्षं च लक्षं च रत्नदर्पणम् । कामधेनुगणं सर्वं शतकोटिं गजानपि
शतकौटिं गजेन्द्राणामश्वानां तच्चतुर्गुणम् । यद्धनं यादवानां च राज्ञो राजनुमोदनात्
ग्रामाणां शतलक्षं च ससस्यं फलितं तरुम् । धान्याचलानां लक्षं च शाल्यन्नानां तथैव च
पायसं पिष्टकं चैव मिष्टान्नं च सुधोपमम् । स्वस्तिकानां तिलानां च रम्यणि ल़ड्डुकानि च
दध्नां मधूनां दुग्धानां गुडानां हविषामपि । कुल्यानां शतकं दत्त्वा परिहारं चकार सः
सकर्पूरं च ताम्दूलं सुशीतं वासितं जलम् । सुगन्धि चन्दनं चैव पारिजातस्य मालिकाम्
आसनानि च रम्याणिवह्निशुद्धाशुकानि च । रत्ननिर्माणतल्पानि पुष्णाणि च फलानि च
प्रददौ ब्राह्मणेभ्यश्च प्रफुल्लवदनेक्षणः । देवांश्च भोजयामास ब्राह्मणानां मुखैः सुभैः
देवाश्च मुनयो रात्रौ स्वरामाभिश्चरेमिरे । प्रभाते प्रययुः सर्वे श्रीकृष्णानुमतेन च
वादवाः प्रययुः सर्वेद्वारकां कृष्णपालिताम् । अमूल्यरात्नबूर्णां च रुक्मिणीदर्शनेन च
इति श्री ब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo पञ्चविंशत्यधिकशततमोऽऽध्यायः
अथ षड्विंशत्यधिकशततमोऽध्यायः नारायण उवाच गणेशपूजनं कृत्वा माधवो यादवैः सह । देवैर्मुनिभिरन्यैश्च देवीभिः सह नारद
अंशेन देवो देवीभी रुक्मिण्याद्याभिरेव च । प्रययौ द्वारकां रम्यां तस्थौ सिद्धाश्रमे स्वयम्
कृत्वा सुप्रीतिसंभाषां सार्धगोलोकवासिभिः । गोपैः सुहृद्भिर्नन्देन मात्रा गोप्या यशोदया
उवाच मातरं तातं सुनीतं च चथोचितम् । गोपांश्च गोकुलस्थांश्च बन्धुवर्गाश्च सांप्रतम्
श्रीभगवानुवाच गच्छ नन्दव्रजं नन्द हे तात प्राणवल्ल्भ । मातर्यशोदे त्वमपि परमार्थे यशस्विनि
भुक्त्वा कालावशेषं च गच्छ गोलोकमुत्तमम् । सालोक्यमुक्तिं दास्यामि सार्थ गोकुलवासिभिः
इत्युक्त्वा भगवान्कृष्णः पित्रोरनुमतेन च । जगाम राधिकास्थानं नन्दश्च गोकुलं तथा
ददर्श राधा रुचिरां मुक्ताहारां च सस्मिताम् । यथा द्वादशवर्षीयां शश्वत्सुस्थिरयौवनाम्
रत्नोच्चैरासनस्था च गोपीत्रिशतकोटिभिः । आवृता वेत्रहस्ताभिः सस्मिताभिश्च सांप्रतम्