प्रलये च विधेः पाते शिवलोकेऽप्यहं शिवः । ब्रह्मभालोद्भवः शंभूः सर्वादिः सर्गभाषणः
कृष्णवामाङ्गसंभूता यथा राधा तथैव च । तथैव दुर्गा लक्ष्मीश्च सावित्री च सरस्वती
आदित्योऽऽयदितेः पुत्रः कायव्यूहेन द्वादश । तथैव च महेन्द्रश्च कायव्यूहाच्चर्तुदश
तथैव वसवश्चाष्टौ रुद्राश्चैकावशैव ते । मनुपाते चेन्द्रपातो विषयात्पतनं भवेत्
समाययौ च सर्वेषां निधनं प्रलयेऽपि च । प्रलयो दर्शयामास ब्रह्माण्डं च जलप्लुतम्
ब्रह्माणं च स्वलोकं च स्वात्मानं शक्तिभिश्च माम् । सर्वेषां मूलरूपश्च सर्वेशः कृष्ण एव च
भज पुत्रं राजसूये यज्ञेशं यज्ञकारणम् । विधिवद्दक्षिणां दत्त्वां भवाब्धिं तर यादव
मुक्तिस्ते नास्ति निर्वाणा विषयी कश्यपो भवान । न ते दास्यं क्तधनमदितिर्देवकी तथा
व्रज स्वर्गं भोगबीजं स्वस्थानममरालयम् । शिवस्य वचनं श्रुत्वा संयत श्चशुभक्षणे
तत्र संभृतसंभारो राजसूयं चकार सः । वसुदेवस्य हव्यं च साक्षाच्च जगृहः सुराः
यत्र साक्षाच्च यज्ञेशो यज्ञोऽयं दक्षिणा सह । बूर्णाहुतिं दत्तवन्तं वसुदेवमुवाच सः
सनत्कुमार उवाच सर्वस्वं दक्षिणां देहि तुर्णं लक्ष्मीपतेः पितः । सार्थकं कुरु कर्मेदं वेदोक्तं वचनं श्रुणु
दक्षिणां विप्रमुद्दिश्य तत्कालं चेन्न दीयते । मुहूर्ते तु व्यतीते सा दक्षिणा द्विगुणा भवेत्
वासरे च बहिर्भूते भवेत्साऽपि चतुर्गुणा । त्रिरात्रे समतीते षड्गुणा दक्षिणा भवेत्
पक्षान्ते तु शतगुणा मासान्ते तु चतुर्गुणा । षण्मासेऽप्यधिके न्यूने च साहस्त्रगुणा तथा
वर्षान्ते सा लक्षगुणा ब्रह्मणोक्तं च याटव । उभौ च नरकं यांतः कर्मकर्तृपुरोहितौ
वासुदैवश्च तच्छुत्वा सर्वस्वमुत्ससर्जं सः । अधिकारांश्च साह् लादो वासुदेवाज्ञया तथा
अमूल्यानां च रत्नानां दशकोटिमनुत्तममा । ददौ गर्गाय सर्वादौ स्वयं लक्ष्मौपतेः पिता
शतकोटिं मणीन्द्राणां स्वर्णानां तच्चर्तुगुणम् । माणिक्यानां च मुक्तानां हीरकाणां तथैव च
रौप्यं प्रवालं परमं स्वर्णपात्राणि यानि च । स्वस्त्रीणां स्ववधूनां चाप्यमूल्यरत्नभूषणम्
श्वेतचामरलक्षं च लक्षं च रत्नदर्पणम् । कामधेनुगणं सर्वं शतकोटिं गजानपि
शतकौटिं गजेन्द्राणामश्वानां तच्चतुर्गुणम् । यद्धनं यादवानां च राज्ञो राजनुमोदनात्
ग्रामाणां शतलक्षं च ससस्यं फलितं तरुम् । धान्याचलानां लक्षं च शाल्यन्नानां तथैव च
पायसं पिष्टकं चैव मिष्टान्नं च सुधोपमम् । स्वस्तिकानां तिलानां च रम्यणि ल़ड्डुकानि च
दध्नां मधूनां दुग्धानां गुडानां हविषामपि । कुल्यानां शतकं दत्त्वा परिहारं चकार सः
सकर्पूरं च ताम्दूलं सुशीतं वासितं जलम् । सुगन्धि चन्दनं चैव पारिजातस्य मालिकाम्
आसनानि च रम्याणिवह्निशुद्धाशुकानि च । रत्ननिर्माणतल्पानि पुष्णाणि च फलानि च
प्रददौ ब्राह्मणेभ्यश्च प्रफुल्लवदनेक्षणः । देवांश्च भोजयामास ब्राह्मणानां मुखैः सुभैः
देवाश्च मुनयो रात्रौ स्वरामाभिश्चरेमिरे । प्रभाते प्रययुः सर्वे श्रीकृष्णानुमतेन च
वादवाः प्रययुः सर्वेद्वारकां कृष्णपालिताम् । अमूल्यरात्नबूर्णां च रुक्मिणीदर्शनेन च