अनन्त उवाच वेदाश्च वेदमाता च पुराणानि च सुव्रते । अहं सरस्वती सन्त स्तोतुं नालं च संततम्
अस्माकं स्तवने यस्य भ्रूभङ्गं च सुदुर्लभम् । तवैव भत्सेने भीताश्चावयोरन्तरं हरेः
एवं देवाश्च देव्यश्चाप्यन्ये ये च समागताः । प्रणतास्तुष्टुवुः सर्वे मुनिमन्वादयस्तथा
लज्जया नम्रवक्त्राश्च रुक्मिण्यद्याश्च योषितः । मलीमसं च चक्रुस्ताः श्वासेन रत्नदर्पणम्
मृततुल्या सत्यभामा निराहारा कृशोदरी । मनसोऽप्यभिमानं च सर्व तत्याच नारद
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo सिद्धाश्रमतीर्थयात्राप्रसङ्गेगणेशपूजनं ब्रह्मेशशेषादिकृतराधिकास्तोत्रं नाम चतुर्विंशत्यधिकशततमोऽध्यायः
अथ पञ्चविंशत्यधिकशततमोऽध्यायः नारद उवाच गणेशपूजनादेव राधास्तोत्रात्परं विभो । बभूव किं रहस्यं वा तन्मे व्याख्यातुमर्हसि
नारायण उवाच गशेशपूजने तीर्थे ये देवाश्च समाययुः । मुनयश्चापि योगीन्द्रा वसन्तो वटमूलके
वसुदेवो देवकी च परमादरबूर्वकम् । पप्रच्छ शंभुं ब्राह्मणमनन्तं मुनिपुंगवान्
भवेद्भवाब्धितरणमावयोरुत्तमा गतिः । शीघ्रं ब्रूत महाभागा दीनयोर्दीनबान्धवाः
भवाब्धितरणे तर्यां तत्र यूयं च नाविकाः । न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः
यज्ञरूपाणि पुण्यानि व्रतान्यनशनानि च । तपांसि नानादानानि विप्रदेवार्चनानि च
चिरं पुनन्ति सर्वाणि दर्शनादेव वैष्णवाः । सतां च विष्णुभक्तानां रजसां स्पर्शमात्रतः
पूतानां पादपद्मानां सद्यः पूता वसुंधरा । तीर्थानि च पवित्राणि समुद्राः पर्वतास्तथा
सुरा दर्शनमिच्छन्ति पातकेन्धनपापकम् । सोऽज्ञानि नैव बुबुधे ज्ञानं च ज्ञानिना सह
परमं स्वादुरूपं च दधिदुग्धरसं यथा । यथा कृणस्य तातोऽहं सङ्गी सुचिरमेव च
तथैव देवकी माता ज्ञानिनां च गुरोर्गुरोः । वसुदेववचः श्रुत्वा प्रहस्य शंकरः स्वयम् चतुर्णामपि वेदानामुवाच जनको गुरुः
महादेव उवाच संनिकर्षो ज्ञानिनां चाप्यनादरणकारणम् । यान्ति गङ्गाम्भसा पूतास्तीर्थान्यन्यानि सिद्धये
वासुदेवास्य तातोऽयं वसुदेवश्च पण्डितः । ज्ञानिनः कश्यपस्याशो वसोस्तातस्य चाऽऽत्मनः
पृच्छति ज्ञानमस्मांश्च कृष्णाज्ञान्पुत्रबुद्धितः । अहो दुर्गा महामाया ज्ञानिनामपि मोहिनी
विष्णुमाया दुराराध्या न साध्या जागतामपि । वयं च मोहिताः शश्वद्वेदानां जनकस्तथा
ब्रह्मा कृष्णं परीक्षेत मोहितस्तस्य मायया । ध्यायते यत्पदाम्भोजं तपसा जीवनावधि
इन्द्रेषु दशलक्षेष्वप्यधिकाष्टशतेषु च । पातेषु ब्रह्मणः पाते निमेषो माधवस्य च
सह तेनेन्द्रयुद्धं च पारिजातस्य हेतुना । पारिजाततरुं दत्त्वा मया शक्रश्च रक्षितः
यज्ज्ञानं न गिरामेव तत्वं वा विषयात्मकम् । नहि किं चित्तदज्ञानां तस्माद्ध्यानं सदैव हि
प्राणिनामात्मनो ज्ञानमस्माकं ज्ञानमस्ति च । तदूधर्वं तत्समं नैव कृष्णं पृच्छ शुभाशुमम्
ब्रह्मणश्च चतुर्यामं कल्पं कल्पविदो विदुः । सप्तकल्पान्तजीवी च मार्कण्डेयो महामुनिः
अष्टानवतिशक्रेषु पातेषु पतनं मुनेः । ततः प्राप्तं हरेर्दास्यं मुनिना तपसः फलात्
प्रलये ब्रह्मणः पाते पतनं लोमशस्य च । दिक्पालानां ग्रहाणां च तदायुश्चिरजीविनाम्
अन्येषामपि देवानां मुनीनामूर्ध्वरेतसाम् । तदेवाऽऽयुश्च रुद्राणां मां च मृत्युंजयं विना