श्वेतचम्पकवर्णाभामतुलां सुमनोहराम् । मोहिनीं मानसानां च मुनीनामूर्ध्वरेतसाम्
सुकेशीं सुन्दरीं श्यामां न्यग्रोधपरिमण्डलाम् । नितम्बकठिनश्रोणीं स्तनयुग्मोन्नताननाम्
कोटीन्दुनिन्दितास्यां तां सस्मितां सुदतीं सतीम् । कज्जलोज्ज्वलरूपां च शरत्कमललोजनाम्
महालक्ष्मीं बीजरूपां परामाद्यां सनातीम् । परमात्मस्वरूपस्य प्राणाधिष्ठातृदेवताम्
स्तुतां च पूजितां चैव परां च परमात्मने । ब्रह्मस्वरूपां निर्लिप्तां नित्यरूपां च निर्गुणाम्
विश्वानुरोधात्प्रकृतिं भक्तानुग्रहविग्रहाम् । मत्यस्वरूपां शुद्धां च पूतां पतितपावनीम्
सुतीर्थपूतां सत्कीर्तिं विधात्रीं वेदसामपि । महत्प्रियां च महतीं महाविष्णोश्च मातरम्
रासेश्वरेश्वरीं रम्यां रसिकां रसिकेश्वरीम् । वह्निशुद्धांशुकाधामां स्वेच्छारूपां शुभालयाम्
गोपीभिः सप्तभिः शश्वत्सेवितां श्वेतचामरैः । चतसृभिः प्रियालीभिः पादपद्मोपसेविताम्
अमूल्यरत्ननिर्माणभूषणोच्चैर्विभूषिताम् । चारुकुण्डलयुग्मेन श्रुतिगण्डस्थलोज्ज्वलाम्
सुनासां गजमुक्तार्हां खगेन्द्रचञ्चुनिन्दिताम् । कुङ्कुमालक्तकस्तूरीस्निग्धचन्दनचर्चिताम्
दधानां सुकपोलं च कोमलाङ्गीं सुकामुकीम् । गचेन्द्रगामिनीं रामां कामनीयां सुकामिनीम्
कामास्त्रजयरूपां च कामकाम्यालयां वराम् । क्रीडाकमलमम्लानं पारिजातप्रसूनकम्
अमूल्यरत्ननिर्माणं दधानां दर्पणोज्ज्वलम् । नानारत्नविचित्राढ्यरतनसिंहासनस्थिताम्
पद्मैः पद्मार्चितं पादपद्मं च मङ्गलालयम् । हृत्पद्मे ध्यायमानं च कृणस्य परमात्मनः
कर्मणा मनसा वाचा स्वप्ने जागरणेऽपि च । तत्प्रीतिं प्रेम सौभाग्यं स्मरन्तीं नित्यनूतनम्
भावानुरक्तसंसक्तां शुद्धभक्तां पतिव्रताम् । धन्यां मान्यां गौरवर्णां शश्वद्वक्षः स्थलस्थिताम्
प्रियासु प्रियभक्तेषु सुप्रियां प्रियवादिनीम् । कृष्णवामाङ्गसंभूतामभेदां गुणरूपयोः
गोलोकवासिनीं देवदेवीं सर्वोपरिस्थितम् । वृषभानसुताख्यां तां पुण्यक्षेत्रे च भारते
गोपीश्वरीं गुप्तरूपां सिद्धिदां सिद्धिरूपिणीम् । ध्यानासाध्यां दुराराध्यां वन्दे सद्भक्तवन्दिताम्
ध्याने ध्यानेन राधाया व्यायन्ते ध्यानतत्पराः । इहैव जीवन्मुक्तास्ते परत्र कृष्णपार्षदाः
दृष्ट्वा ब्रह्मा च सर्वादौ तुष्टाव परमेश्वरीम् । स्वयं विधाता जगतां मातरं वेधसामपि
ब्राह्मोवाच षष्टिवर्षसहस्रणि दिव्यानि परमेश्वरि । पुष्करे च तपस्तप्तं पुण्यक्षेत्रे च भारते
त्वत्पादपद्मधुरमधुलुब्धेन चेतसा । मधुव्रतेन लोलेन प्रेरितेन मया सति
तथाऽपि न मया लब्धं त्वत्पादपद्ममीप्सितम् । न दृष्टमपि स्वप्नेऽयि जाता वागशरीरिणी
वाराहे भारते वर्षे पुण्ये वृन्दावने वने । सिद्धाश्रमे गणेशस्य पादपद्मं च द्रक्ष्यसि
राधामाधवयोर्दास्यं कुतो विषयिणस्तव । निवर्तस्व महाभाग परमेतत्मुदुर्लभम्
इति श्रुत्वा निवृत्तोऽहं तपसे भग्नमानसः । परिपुर्ण तदधुना वाञ्छितं तपसः फलम्
महादेव उवाच पद्मैः पद्मार्चितं पादपदमं यस्य सुदुर्लभम् । ध्यायन्ते ध्याननिष्ठाश्च शाश्वद्रब्रह्मादयः सुराः
मुनयो मनवश्चैव सिद्धाः सन्तश्च योगिनः । द्रष्टुं नैव क्षमाः स्वप्ने भवती तस्य वक्षसि