चकार चन्दनाक्तं च स्वयं च पार्वती सती । पुष्पं केलिकदम्बानां स्तबकं च मनोहरम्
कदम्बमालां कृष्णार्थ विद्यमानां चकार सा । ताम्बूलं च वरं सम्यं कर्पूरादिसुवासितम्
कृष्णप्रिया च कृष्णार्थं चकार वासितं जलम् । एतस्मिन्नन्तरे सर्वमाश्रमं सजलस्थलम्
साक्षाद्गोरोचनाभं च ददृशुर्मुनयः सुराः । ते सर्वे विस्मयं गत्वा पप्रच्छुः कृष्णमीश्वरम्
उवाच भगवांस्ताश्च सर्वज्ञः सर्वकाराणा
श्रीभगवानुवाच अभिशप्ता च श्रीदाम्ना भ्रष्टशोभा राधिका । सर्वं ज्ञानं विसस्मार मद्विच्छेदज्वरातुरा
विमुक्ते वर्षशतके ज्ञानं सस्मार सा सती । सिद्धाश्रमं च पीताभं रासेश्वर्याश्च तेजसा
परमाह्लादकं तेजश्चन्द्रकोटिसमप्रभम् । सुखदृश्यं च सुखदं चक्षुधां प्राणिनामपि
तच्छ्रुत्वा परमाश्चर्यं मुनयो मनवस्तथा । देव्यश्च सर्वदेवास्ते ब्रह्मेशानादयस्तथा
जवेन गत्वा तत्स्थानं भक्तिनम्रात्मकंधरा । सर्वे जनास्ते ददृशुस्त्रैलोक्यस्थाश्च राधिकाम्
श्वेतचम्पकवर्णाभामतुलां सुमनोहराम् । मोहिनीं मानसानां च मुनीनामूर्ध्वरेतसाम्
सुकेशीं सुन्दरीं श्यामां न्यग्रोधपरिमण्डलाम् । नितम्बकठिनश्रोणीं स्तनयुग्मोन्नताननाम्
कोटीन्दुनिन्दितास्यां तां सस्मितां सुदतीं सतीम् । कज्जलोज्ज्वलरूपां च शरत्कमललोजनाम्
महालक्ष्मीं बीजरूपां परामाद्यां सनातीम् । परमात्मस्वरूपस्य प्राणाधिष्ठातृदेवताम्
स्तुतां च पूजितां चैव परां च परमात्मने । ब्रह्मस्वरूपां निर्लिप्तां नित्यरूपां च निर्गुणाम्
विश्वानुरोधात्प्रकृतिं भक्तानुग्रहविग्रहाम् । मत्यस्वरूपां शुद्धां च पूतां पतितपावनीम्
सुतीर्थपूतां सत्कीर्तिं विधात्रीं वेदसामपि । महत्प्रियां च महतीं महाविष्णोश्च मातरम्
रासेश्वरेश्वरीं रम्यां रसिकां रसिकेश्वरीम् । वह्निशुद्धांशुकाधामां स्वेच्छारूपां शुभालयाम्
गोपीभिः सप्तभिः शश्वत्सेवितां श्वेतचामरैः । चतसृभिः प्रियालीभिः पादपद्मोपसेविताम्
अमूल्यरत्ननिर्माणभूषणोच्चैर्विभूषिताम् । चारुकुण्डलयुग्मेन श्रुतिगण्डस्थलोज्ज्वलाम्
सुनासां गजमुक्तार्हां खगेन्द्रचञ्चुनिन्दिताम् । कुङ्कुमालक्तकस्तूरीस्निग्धचन्दनचर्चिताम्
दधानां सुकपोलं च कोमलाङ्गीं सुकामुकीम् । गचेन्द्रगामिनीं रामां कामनीयां सुकामिनीम्
कामास्त्रजयरूपां च कामकाम्यालयां वराम् । क्रीडाकमलमम्लानं पारिजातप्रसूनकम्
अमूल्यरत्ननिर्माणं दधानां दर्पणोज्ज्वलम् । नानारत्नविचित्राढ्यरतनसिंहासनस्थिताम्
पद्मैः पद्मार्चितं पादपद्मं च मङ्गलालयम् । हृत्पद्मे ध्यायमानं च कृणस्य परमात्मनः
कर्मणा मनसा वाचा स्वप्ने जागरणेऽपि च । तत्प्रीतिं प्रेम सौभाग्यं स्मरन्तीं नित्यनूतनम्
भावानुरक्तसंसक्तां शुद्धभक्तां पतिव्रताम् । धन्यां मान्यां गौरवर्णां शश्वद्वक्षः स्थलस्थिताम्
प्रियासु प्रियभक्तेषु सुप्रियां प्रियवादिनीम् । कृष्णवामाङ्गसंभूतामभेदां गुणरूपयोः
गोलोकवासिनीं देवदेवीं सर्वोपरिस्थितम् । वृषभानसुताख्यां तां पुण्यक्षेत्रे च भारते
गोपीश्वरीं गुप्तरूपां सिद्धिदां सिद्धिरूपिणीम् । ध्यानासाध्यां दुराराध्यां वन्दे सद्भक्तवन्दिताम्