त्वयैव पूजितः पुत्रो न मया च गणेश्वरः । सर्वादौ सर्वपूज्योऽयं यथा तव तथा मम
यावज्जीवनपर्यन्तं न विच्छेदो भविष्यति । राधामाधवयोर्देवि दुग्धधावल्ययोर्यथा
सिद्धाश्रमे महातीर्थे पुण्यक्षेत्रे च भारते । निर्वघ्नं लभगोविन्दं संपूज्य विघ्नखण्डनम्
रासेश्वरी त्वं रसिका श्रीकृष्णो रसिकेश्वरः । विदग्धाया विदग्धेन संगमो गुणवान्भदेत्
श्रीदाम्नः शापनिर्मुक्ता शतवर्षान्तरे सति । कुरुष्व मद्रेणाद्य कृष्णेन सह संगमम्
ममाऽऽज्ञया दुर्लभया सुवेषं कुरु सुन्दरि । सुदुर्लभः कामिनीनां सत्पुंसा सह संगमः
चक्रुः सुवेषं राधायाः प्रियाल्यश्च शिवाज्ञया । रत्नसिंहासने रम्ये वासयामासुरीश्वरीम्
पुरतो रत्नमाला सा रत्नमालां गले ददौ । राधाया दक्षिणे हस्ते क्रीडापद्मं मनोहरम्
ददौ पद्ममुखी पादपद्मयुग्मेऽप्यलक्तकम् । प्रददौ सुन्दरी गोपी सिन्दूरं सुन्दरं वरम्
चन्दनेन समयुतं सीमन्ताधः स्थलोज्ज्वलम् । सुचारुकबरीं रम्यां चकार मालती सती
मनोहरां मुनीनां च मालतीमाल्यभूषिताम् । कस्तूरीकुङ्कुमाक्तं च चारुचन्दनपत्रकम्
स्तनयुग्मे सुकठिने चकार चन्दना सती । चारुचम्पकपुप्पाणां मालां गन्धमनोहराम्
मालावती ददौ तस्यौ प्रफुल्लां नवमल्लिकाम् । रतीषु रसिका गोपी रत्नभूषणभूषिताम्
तां चकारातिरसिकां वरां रतिरसोत्सुकाम् । शरत्पद्मदलाभं च लोजनं कज्जलोज्ज्वलम्
कृत्वा ददौ सुललितं वस्त्रं च ललिता सती । महेन्द्रेण प्रदत्तं च पारिजातप्रसूनकम्
सुगन्धियुक्तं तस्याश्च पारिजातं करे ददौ । सुशीलं मधुरोक्तं च भर्तुः पार्श्वे यथोचितम्
शिक्षां चकार नीतिं च सुशीला गोपिका सती । स्त्रीणां च षोडशकलां विपत्तौ विस्मृतांतयोः
स्मरणं कारयामास राधामाता कलावती । श्रृङ्गारविषयोक्तं च वचनं च सुधोपमम्
स्मरणं कारयामास भगिनी च सुधामुखी । कमलानां चम्पकानां दले चन्दनचर्चिते
चकार रतितल्पं च कमला चाऽऽशु कोमलम् । चारुचम्पकपुष्पं च कृष्णार्थं पुटकस्थितम्
चकार चन्दनाक्तं च स्वयं च पार्वती सती । पुष्पं केलिकदम्बानां स्तबकं च मनोहरम्
कदम्बमालां कृष्णार्थ विद्यमानां चकार सा । ताम्बूलं च वरं सम्यं कर्पूरादिसुवासितम्
कृष्णप्रिया च कृष्णार्थं चकार वासितं जलम् । एतस्मिन्नन्तरे सर्वमाश्रमं सजलस्थलम्
साक्षाद्गोरोचनाभं च ददृशुर्मुनयः सुराः । ते सर्वे विस्मयं गत्वा पप्रच्छुः कृष्णमीश्वरम्
उवाच भगवांस्ताश्च सर्वज्ञः सर्वकाराणा
श्रीभगवानुवाच अभिशप्ता च श्रीदाम्ना भ्रष्टशोभा राधिका । सर्वं ज्ञानं विसस्मार मद्विच्छेदज्वरातुरा
विमुक्ते वर्षशतके ज्ञानं सस्मार सा सती । सिद्धाश्रमं च पीताभं रासेश्वर्याश्च तेजसा
परमाह्लादकं तेजश्चन्द्रकोटिसमप्रभम् । सुखदृश्यं च सुखदं चक्षुधां प्राणिनामपि
तच्छ्रुत्वा परमाश्चर्यं मुनयो मनवस्तथा । देव्यश्च सर्वदेवास्ते ब्रह्मेशानादयस्तथा
जवेन गत्वा तत्स्थानं भक्तिनम्रात्मकंधरा । सर्वे जनास्ते ददृशुस्त्रैलोक्यस्थाश्च राधिकाम्