युक्योः पादपद्मं च दुर्लभं प्राप्य पुण्यवान् । क्षणार्धं षोडशांशं च नहि मुञ्चति दैवतः
भक्त्या च युवचोर्मन्त्रं गृहीत्वा वैष्मपादपि । स्तवं वा कवचं वाऽपि कर्ममूलनिकृन्तनम्
योजयेत्परया भक्त्या पुण्यक्षेत्रे च भारते । पुरुषाणां सहस्रं च त्वात्मना सार्धमुद्धरेत्
गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचन्दनैः । कवचं धारयेद्यो हि विष्णुतुल्यो भवेद्ध्रुवम्
यद्दत्तं वस्तु मे मातस्तत्सर्वं सार्थकं कुरु । देहि विप्राय मत्प्रीत्या तदा भोक्ष्यामि सांप्रतम्
देवे देयानि दानानि देवे देया च दक्षिणा । तत्सर्वं ब्राह्मणे दद्यात्तदानन्त्याय कल्पते
ब्राह्मणानां मुखं राधे देवानां मुखमुख्यकम् । विप्रभुक्तं च यद्द्रव्यं प्राप्नुवन्त्येव देवताः
विप्रांश्च भोजयामास तत्सर्व राधिका सती । बभूव तत्क्षणादेव प्रीतो लम्बोदरो मुने
एतस्मिन्नन्तरे देवा ब्रह्मेशशेषसंज्ञकाः । आययुर्वटमूलं च देवपूजार्थमेव च
तत्र गत्वा शिवचरो देवान्देवीरुवाच सः । श्रीकृष्णं शुष्ककण्ठश्च भयभीतश्च रक्षकः
रक्षक उवाच गणेशं पूजयामास सर्वादौ च शुभक्षणे । वृषभानसुता राधा प्रकृत्य स्वस्तिवाचनम्
सहिता सा बलवती गोपीत्रिशतकोटिभिः । वारितोऽहं वलिष्ठाभिर्युष्मांश्च कथयामि तत्
मर्वादौ पूजयेद्यो हि सोऽनन्तं फलमालभेत् । मध्ये मध्यविधं पुण्यं शेषे स्वल्पमिति स्मृतम्
देवेन्द्रेषु मुनीन्द्रेषु देवस्त्रीषु स्थितासु च । गोपीभिश्च सह तया राधया पूजितः परः
दूतवाक्यं समाकर्ण्य जहसुः सर्वदेवताः । मुनयो मनवश्चैव राजानो देवयोषितः
रुक्मिण्याद्या रमण्यश्च या देव्यो विस्मयं ययुः । सरस्वती च सावित्री पार्वती परमेश्वरी
रोहिणी च सती संज्ञा स्वाहाद्या देवयोषितः । मुदिताः प्रययुः सर्वा मुनिपत्न्यः पतिव्रताः
मुनयो मनवः सर्वे देवाश्चापि नरास्तथा । श्रीकृष्णः स गणैः सार्धं ये चान्ये प्रययुर्मुदा
ते सर्वे विविधैर्द्रव्यैः पूजां चक्रुः शुभक्षणे । बलिष्ठा दुर्बलाश्चैव क्रमेण च पृथक्पृथक्
लड्डुकानां च राशीनां शतकोटिर्बभूव ह । शर्कराणां तदर्धं च स्वस्तिकानां तथैव च
अन्नानां भव्यवस्तूनां शतकोटिर्बभूव ह । असंख्यानि फलान्येव स्वादूनि मधुराणि च
मधुकुल्या दुग्धकुल्या दधिकुल्या घृतस्य च । बभूवुः शतसंख्याश्च त्रैलोक्यानां च पूजने
पूजां कृत्वा तु ते सर्वे समूषुश्च सुखासने । पार्वती परमप्रीत्या राधास्थानं समाययौ
सा राधा पार्वतीं दृष्ट्वा समुत्थाय जवेन च । यथायोग्यां च संभाषां चकार सादरं मुदा
आश्लेषणं चुम्बनं च बभूव च परस्परम् । उवाच मधुरं दुर्गा राधां कृत्वा स्ववक्षसि
पार्वत्युवाच किंवा प्रश्नं करिष्यामि त्वां राधा मङ्गलालयाम् । गता ते विरहज्वाला श्रीदाम्नः शापमोक्षणे
सततं मन्मनः प्राणास्त्वय्येव मयि ते तथा । न ह्येवमावयोर्भेदः शक्तिपूरुषयोस्तथा
येत्वां निन्दन्ति मद्भक्तास्त्वद्भक्ताश्चापि मामपि । कुम्भीपाके च पज्यन्ते यावच्चन्द्र दिवाकरौ
राधामाधवयोर्भेदं ये कुर्वन्ति नराधमाः । वंशहानिर्भवेत्तेषां पच्यन्ते नरके चिरम्
यान्ति सूकरयोनिं च पितृभिः शतकैः सह । षष्टिवर्षसहस्राणि विष्ठायां कृमयस्तथा